सुषुम्नेति समादिष्टा तया गच्छन्विमुच्यते ।
तयोपचितचैतन्यं जीवात्मानं विदुर्बुधाः ॥ ३२ ॥
यथा राहुरदृश्योऽपि दृश्यते चन्द्रमण्डले ।
तद्वत्सर्वगतोऽप्यात्मा लेिजुङ्देहेऽपि दृश्यते ॥ ३३ ॥
दृश्यमाने यथा कुम्भे"घटाकाशोऽपि दृश्यते ।
तद्भत्सर्वगतोऽप्यात्मा लिङ्गदेहेऽपि दृश्यते ॥ ३४ ॥
निश्चलः परिपूर्णोपि गच्छतीत्युपचर्यते ।
जाग्रत्काले यथा ज्ञेयमभिव्यक्तविशेषधीः ॥ ३५ ॥
ज्यन्त इति फलितोऽर्थः ॥ ३१ । सुषुम्नायाः फलमाह--सुषुम्नेति । समादिष्टा सम्यगुक्ता श्रुतिभिरिति शेषः । तया गच्छन् मुच्यते मुक्तो भवति । हेि प्रसिद्धौ । ननु सुषुम्नाया निर्गमनेन मोक्षश्चेत्तर्हि 'ज्ञानादेव तु कैवल्यम्' इत्यादिश्रुतिस्मृतिव्याकोपः प्रसज्येतेत्याशङ्कयाह-तयेति। उपचितं कामादिदोषविरहेणोपासाबलविशिष्टं सत् अाविर्भूतमित्यर्थः । चैतन्यं जीवात्मानं बुधा विदुः नतु जीवदशानिवृत्तेति भावः । तथा चोपासकस्य सुषुम्नया गच्छतः पुरुषस्य ब्रह्मलोकावाप्तिरूपा गौणी मुक्तिरेव न परमा मुक्तिरिति नोक्तश्रुतिस्मृतिव्याकोप इति भावः । ब्रह्मलोक इव निर्गुणसाक्षात्कारेऽपि परमा मुक्तिर्भवति ॥३२॥ जीवस्य सर्वगतस्यापि लिङ्गशरीर एवाभिव्यक्तिनोन्यत्रेति सदृष्टान्तमाह-यथा राहुरिति । अभिव्यक्तिविषयक एव दृष्टान्तो ग्राह्यः नहेि दृष्टान्ते सर्वं साम्यमिति न्यायात् ॥३३॥३४॥ तस्य जीवस्य व्यापकत्वेऽपेि लिङ्गदेहावच्छेदेनैव प्रमातृत्वमित्युपपादयन्नाह--निश्चल इति । निश्चलः निष्क्रियः । तत्र हेतुः परिपूर्णः एतादृशोऽपि गच्छतीत्युपचर्यते । ज्ञेयं घटादिकमनतिक्रम्य । यथाज्ञेयं घटाद्याकारान्तःकरणवृत्ति तथा अभिव्यक्ता निवृत्तावरणा या विशेषधीर्घटाद्युपहितचैतन्यं यस्य तथाभूतः सन् जाग्रत्काले सर्वो-