हल्सन्ध्यधिकारः ११
६६. वात्सल्य रसस्यासिस्वादयिषयाऽहं सूरनिबद्धं श्रीकृष्णस्य बाल-
चरितं किञ्चिदपठम् ।
६७. सनाद्यन्ता धातवः ॥
६८. गगणं गगणाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं राम-
रावणयोरिव ।
६६. प्राङ्गणे खेलन्ति बालाः सांराविणं'१ च कुर्वन्ति ।
७० अत्र विसृमरे२ जनप्रकोपे नृणायका एव प्रतिभुवः ।
७१. पुरा ब्राह्मणैः स्वेन गुणप्रकर्षेणोच्चैस्तमं पदमध्यस्थीयत ।
७२. फाल्गुणे मैत्रो विधिवद् दारान्करिष्यति ।
७३. भीष्मादयो वर्णिनो हि सुरासुरलोकान्नपि स्वतेजसाऽभ्यभूवन् ।
६६. आसिस्वादयिषयेति सर्वथानवद्यम् । षत्वभूते सनि स्तौतिण्योरेवेति
नियमेनाभ्यनुज्ञातं षत्वं सः स्विदिस्वदिसहीनां चेति सूत्रेण प्रति-
षिध्यते।
६७. ङमो ह्रस्वादचि ङमुण्नित्यम् इत्यत्र नित्यशब्दोऽभीक्ष्णवचनः,
यथा नित्यप्रहसितः, नित्यप्रजल्पित इत्यादिषु । तेनाभीक्ष्णं ङमु-
डागमो भवति, क्वचिन्नैव भवतीति सनाद्यन्ता इति सूत्रकार-
प्रयोगः साधुः।
।
६८. गगणमित्यपशब्द एवायम्, णत्वनिमित्ताभावात् । वस्तुतो बर्बरा
एवं व्यवहरन्ति न त्वार्याः । गगने फाल्गुने फेने णत्वमिच्छन्ति
बर्वरा इति वचनात्।
६९. प्राङ्गणे इति दुष्टः शब्दः । इजादेः सनुमः इति नियमात् । इजा-
देरेव सनुमो नान्यस्मादित्यर्थात् । अगिरत्र धातु: कृत्प्रत्ययान्तः ।
इदित्वान्नुम् । परमयमिजादिर्न ।
७०. ऋवर्णाच्चेति समानपद एव प्रवर्तत इति पदभेदे णत्वं दुर्लभम् ।
७१. प्राक् सितादड्व्यवायेपीति मूर्धन्येऽध्यष्ठीयतेत्येव साधु ।
७२. फाल्गुने इत्येव शब्दः, णत्वनिमित्ताभावात् ।
७३. लोकानपीति साधु । डमो ह्रस्वादित्यस्य प्राप्तिरेव न । नात्र
नकारात्पूर्वो ह्रस्वः ।
१. व्यापकंशब्दम् । २. व्यापनशीले । .