पृष्ठम्:शब्दापशब्दविवेकः.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१० शब्दापशब्दविवेके


५७. महामहिमानस्तेऽन्तः स्थान् बहिः स्थांश्च रिपून् सममभिस्युः१ ।

५८. सौवर्णानि राजतानि वा भाजनानि बभूवुरार्याणां न तु मृण्मयानि ।

५९. सच्चेष्टितपरिहीनस्य तस्य जीवितेन किम् ?

६०. एवमुपपादितमेतन्मतं निःपक्षपातिनां मनः प्रीणयेन्नाम ।

६१. इक्ष्वाकुकुलपुरोधा श्रीवसिष्ठः श्रीराम तीर्थेभ्य आहृतैरभ्यसिचत् सलिलैः।

६२. एवं हि दैवं पराहण्यते पौरुषेण ।

६३. अयं बहिस्तो बैष्णवः, अन्तस्तु२ शैवः ।

६४. कुत्सितेन तस्य परामर्शेण नितान्तं दूयते स्म नः स्वान्तम् ।

६५. भूरिरस्य परिश्रमो व्याकरणे। साध्वयं वेद हृदयं सूत्रवार्तिकाणाम् ।


५७. अभिष्युरित्येव साधु । उपसर्गप्रादुर्भ्याम्-इति षत्वम् । अभिभवेयुरित्यर्थः । भाग-वर्जितेषु लक्षणादिष्वर्थेष्वभेः कर्मप्रवच- नीयता । अन्यत्रावस्थितोपसर्गता।

५८. मृन्मयानीत्येव संस्कृतम् । णत्वविधायकं शास्त्रं प्रत्यनुनासिक- स्यासिद्धत्वात् । उभे अपि सूत्रे त्रैपादिके । यरोऽनुनासिक इति तु परम् ।

५९. 'कृत्यचः' इति णत्वे परिहीणस्येत्येव साधु ।

६०. इदुदुपधस्थ चाप्रत्ययस्येति षत्वे निष्पक्षपातिनामिति भवितव्यम् ।

६१. अभ्यषिचत् इत्येव प्रयोज्यम् । अडभ्यासव्यवायेऽपीति, उपसर्गात् सुनोति सुवतीत्यादिना मूर्धन्यः ।

६२. हन्तेरत्पूर्वस्येति पराहण्यते इति निर्दुष्टम् ।

६३. ह्रस्वात्तादौ तद्धिते इति बहिष्ट इति शब्दः, बहिस्त इति चापशब्दः । बहिष्ट इति संस्कारवानपि न प्रयोगमवतरन्दृष्टः । बहिरित्येव प्रयुज्यते बाह्यत इति वा ।

६४. परामर्शेनेति साधु । शकारेण व्यवधानाण्णत्वस्याप्राप्तेः ।

६५. सूत्रवार्तिकानामित्येव साधु, तकारेण व्यवधानाण्णत्वस्याप्राप्ते: ।


१. युगपद् अभिभवेयुः। अभिपूर्वस्यास्तेः सार्वधातुके लिङि रूपम् ।

२. अन्तरित्यव्ययं मध्यवाचि ।