पृष्ठम्:शब्दापशब्दविवेकः.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ओं नमः परमात्मने ।


नमो भगवते पाणिनये । नमः शिष्टेभ्यः। नमः पूर्वेभ्यः पथिकृद्भ्यः ।

सूत्रवाक्ये तथा भाष्यं विचिन्त्य स्वमनीषया।

शब्दापशब्दयोरेष विवेकः प्रवितन्यते ॥१॥

शास्त्रे प्रबोधवन्तो ये तत्रार्थेऽनारतं रताः।

प्रयोगे तेऽपि मुह्यन्ति किम्पुनर्ये बुभुत्सवः ॥ २॥

प्रयोगनैपुणी साध्वी शैक्षाणां खल्वगोचरः।

तत्सम्पत्त्या अभीष्टायै प्रकृतो नः समुद्यमः ॥३॥

इहार्वाचां प्रणेतृणां सङ्ग्रहीता दुरुक्तयः ।

क्रियाभ्यः प्रचरन्तीभ्यः क्वचित्प्राचां परीक्षिताः॥४॥

तथा प्रयत्तमस्माभिर्यथा ये नाम शारदाः।

वाचि भूयो विवेक्तारस्ते ध्रुवं स्युर्विशारदाः ॥५॥

अर्धोच्चारितमात्रे चेद् वाक्ये दुष्टत्वधीर्भवेत् ।

प्रज्ञावता विनेयानां वंशारद्यं तदिष्यते ॥६॥

अथ संहितायां विवेच्यानि |

तत्राच्सन्ध्यधिकारः प्रथमः ।

१. शुद्धोदनस्यापत्यं सिद्धार्थ इति शौद्धोदनि १रित्युच्यते ।

२. यदमात्यैर्मतमुपन्यस्तं तत्रौमिति२ ब्रूमः । न हि तेषां प्रायो मिथ्या दर्शनं भवति ।

३. श्वोहं त्वामुपेष्यामीति दृढं प्रतिजाने ।


१. शुद्धोदनस्यापत्यमित्यत्र वृद्धिरेचीति वृद्धिर्नाकारि, स दोषः । पृषोदरादित्वाद्वा साधुत्वं कल्प्यम् । संज्ञापूर्वको विधिरनित्य इति वा समाधेयम् । स्वायम्भुवो मनुरित्यत्रापि स एव समाधिः ।

२. तत्रौमित्यत्र ओमाडोश्चेत्यनेन विहितं पररूपं नाश्रितम्, स दोषः । तत्रोमिति साधु ।

३. अत्र एत्येधत्यूठसु इति वृद्ध्या उपैष्यामीति साधु ।


१. शाक्यसिंह. सर्वार्थसिद्धः शौद्धोदनिश्च सः इत्यमरः ।

२. ओमित्यव्ययमङ्गीकारे ।