vi शब्दापशब्दविवेके
सौष्ठवं नात्यन्तं समाद्रियन्त । पाणिनेः प्राक् प्राणीयन्तेति च तासु
पाणिनीयशासनाननुसारो न दोषाय न चोपालम्भायेत्यपि मतम् ।
इह कृतौ स्थितस्य गतिश्चिन्तनीयेति नात्यन्तं सूर्क्षितं वचः ।
अशक्यसमाधाने न समाधिः प्रसभं प्रवर्तित: । अस्थाने बुद्धिव्यायामः
परिहृतः । शब्दादपशब्दो विविक्तः। न च तत्र वक्तृविशेषे संभावना
प्रतिषेधिकाऽभून्न वेतरस्मिन्नवहेला प्रयोजिका । पाप्मभ्य इवापभ्रं-
शेभ्यः पूतेयं दैवी वाग् यथा स्यात्तथा प्रयस्तम् । अत्र प्रयासे कियती
मे सकामतेति सुधियोत्र मानम् । नाहं किञ्चिद्विवक्षे। बलवच्च
प्रत्येमि भूयसे समुपकाराय भविष्यतीयं कृतिः प्रतिपतृणां प्रतिपि-
त्सूनां च ।
नेदम्प्रथमं प्रकाशनं कृतेः । अद्य वर्षपूगोऽस्या: प्रकाशिताया: ।
कालेनेयं दुर्लभाऽभूदिति भूयः प्रकाशनमुपेयते । प्राक् च प्रकाशनाद्
भूयसा प्रतिसंस्कृतेयम् । इत्थम्भूतश्चात्र प्रतिसंस्कारोऽभूत् । प्रथमे
प्रकाशने समुदितोपि विवेच्यसङ्ग्रहो ग्रन्थपूर्वार्द्धे न्यस्तः, तद्विवेचनं
चोत्तरार्धे कृतम् । तथा स्थिते विवेच्यविवेचनयोर्व्यवधि: सद्यः
प्रतिपत्तेः प्रतिबन्धकोऽभूदायासाय च प्रतिपित्सोरिति सोऽनुक्रम
इदानीमन्यथितः । विवेचनमिह विवेच्यस्यानन्तरमेव संनिवेशितम् ।
तेनैकत्रैव दृक्पातमात्रेणानायासं जायते प्रज्ञानम् । आवापोद्वापावप्य-
भूताम् । आवापेन च विपुलतरोऽत्र विवेच्यसंग्रहोऽभूत् । शतशोऽ
संगृहीतचराणि वाक्यानि साम्प्रतमभ्युच्चितानि । उद्वापेन च
व्यवहारव्यभिचारविषयाणां वाक्यानामल्पताऽपि संग्रहस्य
समजनि । तथापि ग्रन्थकलेवरस्य प्रकर्ष एव पर्यणंस्त नापकर्षः ।
स्वयं कृतं विवेचनं चेह महता प्रयत्नेन परिशोधितं मानष्यकसुलभ-
दोषाश्च प्रमार्जिताः । इत्थं प्रतिसंस्कृतोऽयं शब्दापशब्दविवेकः
सुतरां रोचिष्यते विदद्भ्यो विविदिषावद्भ्यश्चेत्याशासानोहं
विरमामि विदां विधेयश् चारुदेवः शास्त्री ।।
३/५४ रूपनगरे देहल्याम् १०-७-१९८२