पृष्ठम्:शब्दापशब्दविवेकः.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निवेदना


अर्थगत्यर्थः शब्दप्रयोगः । अर्थं च यथा शब्दोऽवगमयति तथाऽप- शब्दोपि । तथापि शब्दमभिनन्दति लोकोऽवक्षिपति चापशब्दम् । प्रियङ करणो हि शब्दप्रयोगः । य इच्छेत्प्रियोऽहं लोकस्य स्यामिति स शब्दाञ्छीलयेत्साधीयश्च तान् व्यवहरेत् । प्राह च भगवान्भाष्य- कार:-समानायामर्थगतौ शब्देन चापशब्देन च शब्देनैवार्थोऽभिधेयो नापशब्देनेति । कश्शब्दः कश्चापशब्दः । सूत्रानुसारी प्रयोगः शब्द उत्सूत्रश्चापशब्दः । सूत्रेष्वेव तत्सर्वं यद् वृत्तौ यच्च वार्तिक इति मतमाश्रित्येदमुच्यते । मतान्तरे तु संस्कारहीनश्शब्दोऽपशब्दः । स एवापभ्रंशः । अपशब्दपरीहारश्च न सहेलं साघ्यः । शब्दापशब्द- विवेकनिबन्धनो हि सः । विवेकश्च विशारदस्यापि न सहसा जायते किमुत शारदस्येति प्रकृतो नो यत्नः । वाचि शिक्षमाणस्य प्रथम- वैयाकरणस्य साचिव्यं किमपि चिकीर्षामीति प्रक्रममिमं प्रकृतोस्मि

अत्र विषये शरणदेवविरचितां दुर्घटवृत्तिमतिरिच्य न काचित् कृतिर्विद्यतेऽस्मत्कृते: पूर्वा । सा चैतस्या एकदेश एव समाविशत्यबहु च व्याप्नोति । तत्र कवीनां महाकवीनां चाल्पे केचन प्रयोगा दुर्घटा इति चिन्तिताः । अस्याः कृतेस्तु भूयोविषयावगाहः । इह विनेयानां वाचि प्रतीतास्ते ते प्रमादानां गोचरा बहुलं सङगृहीताः । नैतदेव । इदानीन्तानां कवीनामकवीनां च क्रियासु नैकविधासु वर्तमानाः पाणिनीयशासनव्यतिक्रमलक्षणास्तास्ताः स्खलितयो निखिलेन विभाविताः सुनिपुणं च परीक्षिताः । अद्यत्वे संस्कृतं लोकव्यवहारस्य गोचरो नेत्यधीतिनोऽपि शास्त्रे प्रयोगे स्खलन्ति किमुत ये प्राधीताः । तस्मादसकृत्प्रबोधनसव्यपेक्षो लोको विशेषात्तु विनेयवर्गः । यदा संस्कृतं लोके प्राचारीदाबालबुद्धं च प्रयोगविषयो ऽभूत्तदापि क्वचित् क्वचित्प्रामदन्प्राञ्चोऽपीति तेषामपि वागिह साधु परीक्षिता। न जातु तेषां मान्यानामनादरोऽभिप्रेतः । पुराणादिषु भागवत- व्यतिरिक्तेषु येऽपाणिनीया प्रयोगा अपभ्रंशलक्षणास्ते कृतेरस्या अविषयः । जनसामान्यस्य कृते कृतास्ताः कृतयोऽर्थप्रधानाः शब्द‌-‌