हल्सन्ध्यधिकारः ३
१२. तस्मिन् विप्रकृताः काले तारकेण दिवौकसः । तुरासाहं पुरोधाय
धाम स्वायम्भुवं ययुः (कु० २।१) ।।
१३. आत्ममनसोरेकत्वऽऽत्मा प्रतिक्षणं परिवर्तेत । तन्नेष्यते ।
१४. विप्रोषिता विद्यार्थिन अकामतोऽपि न तथा वर्तेरन् यथाऽस्य देश-
स्य मानो देशान्तरेऽपकृष्येत ।
१५. शास्त्रेणातिशयने तमबिष्ठनौ विधीयते ।
१६. अथैतच्छ्रुत्वा द्वीपि आह ।
१७. उपैषस्व गुरून् । अर्हन्तस्ते मार्गमुपदेक्ष्यन्ति ।
हल्सन्ध्यधिकारो द्वितीयः
१. इमान्यन्तरङ्गानि साधनानि, इमानि बहिरङ्गानि ।
२. यदीयं किम्वदन्ती राजानं स्पृशेत्तदाऽतिदारुणं स्यात् ।
३. इमे दोषा गुणान्तिरस्कुर्वन्ति महतामपि ।
१२. स्वायम्भुवमित्यत्र ओर्गुण' इति गुणो न कृतः, संज्ञापूर्वको
विधिरनित्य इत्यदोषः ।
१३. एकत्व आत्मेत्येव साधु । पूर्वरूपस्याप्राप्तेः ।
१४. विद्यार्थिनोऽकामत इति स्यात् । रोरुत्वे आद्गुणे एङः पदान्ता-
दति इति शास्त्रेण प्रवृत्यम् ।
१५. अतिशायने इत्येव वक्तव्यम् । बाधकान्येव निपातनानि
भवन्तीति । अतिशायने तमबिष्ठनाविति सूत्रेऽतिशायनमिति
निपातितम् ।
१६. इकोऽसवर्णे शाकल्यस्य ह्रस्वश्चेति प्रकृतिभावो ह्रस्वश्च वा
भवतः।
१७. एङि पररूपमिति पररूपत्वे उपेषस्वेति साधु । एष गताविति
भ्वादिष्वनुदात्तेत् पठितः ।
इत्यच्सन्धिविवेचनम्।
१. अन्तरङ्गाणि बहिरङ्गाणीति च भाव्यम् । कुमति चेति नित्यं
णत्वं दुर्वारम् ।
२. किंवदन्तीत्येव साधु । मोऽनुस्वार इत्यनुस्वारः ।
३. गुणांस्तिरस्कुर्वन्तीति वाच्यम् । नश्छव्यप्रशान् इति नस्य रुः ।