पृष्ठम्:शब्दापशब्दविवेकः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नाम्नामधिकार: २१


१५. त्रिंशद्भिरपि वर्षैर्नेदं शक्यं निर्वर्तयितुं१ किमुत त्रिभिः । १६. सहस्रेण श्लोकैः संचिक्षेप नीतिशास्त्रमुशनाः । १७. ग्राम्याश्चतुष्पदो नृशंसस्तैर्यवनैर्विनाशिताः । १८. यया लक्ष्यते प्रसिध्यतीति यावत् सा लक्ष्मीत्यभिधीयते । १९. वत्स ! तथा चेष्टस्व यथा ते वृत्तशीले विगतदोषे गुणवन्ती भवेताम् । २०. प्राक्तनं जन्मानभ्युपेयुषो यूयं तावद् ब्रूत ईश्वरे वैषम्यनैर्घृण्ये२ कुतो न स्याताम् । २१. शक्यं षट्त्रिंशता वर्षै: साङ्गाः सरहस्याश्चत्वारोऽपि वेदा ग्रहीतुम् । २२. सर्वेषां चतुष्पदानां ज्वलनाद् भयं भवति । २३. प्रत्यूषसि समुत्थाय वातमासेवितुं बहिर्गच्छेच्चिरं च विहरेत् । १५. त्रिंशतेत्येकवचनं प्रयोक्तव्यम् । विशतेः प्रभृत्या नवनवतेः संख्याशब्दाः स्वभावतः स्त्रियामेकत्वे वर्तन्ते । १६. अन्तादेशेऽनङि प्रथमैकवचने उशना इति निर्विसर्गक रूपं भवति । १७. चतुष्पाद इति प्रथमाबहुवचने शुद्धं रूपम् । द्वितीयाबहुवचने भसंज्ञायां पादः पत्' इति पद्भावे चतुष्पद इति बाढं युज्यते । १८. लक्ष्मीशब्दे ईकार औणादिको न तु स्त्रीप्रत्ययः, तेन सुलोपा- सम्भवः । लक्ष्मीरित्यभिधीयते इत्येवं वक्तव्यम् । १९. गुणवती इति साधु । नुमोऽप्राप्तेः । शी सर्वनामस्थानं न । २०. अनभ्युपेयुष इति तु द्वितीयायां युक्तम् । इष्यते चात्र प्रथमा। प्रथमाबहुवचने चानभ्युपेयिवांस इति भवति । २१. शक्यमिति सामान्योपक्रमे नपुंसकमेकवचनान्तं च साधु । तथा च काव्यालंकारसूत्रवृत्ती वामनसूत्रम्-शक्यमिति रूपं कर्माभिधायां विलिङ्गवचनस्यापि सामान्योपक्रमात् । तथा च श्रीरामायणे प्रयोगः-शक्यमञ्जलिभिः पातुं वाताः केतक- गन्धिनः । कविभिश्चानेकत्र समादृतोऽयं व्यवहार इत्यस्य साधु- त्वमनतिशङ्कनीयम्। २२. चतुष्पदामित्येव साधु । उपपत्तिर्विस्पष्टा । २३. प्रत्यूषे इति वा प्रत्युषसि इति वा प्रयोज्यम् । १. साधयितुम् । २. नैर्घृण्यं निर्दयता । 7