पृष्ठम्:शब्दापशब्दविवेकः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५ शब्दापशब्दविवेके


११. कान्तः सर्वगुणोपेतो बाले ! दुःखेन लभ्यते। १२. गृहाण भो तात मदीयभावम् । १३. मुनित्रयं नमःकृत्य व्याकरणं नित्यमामनेत् ।। १४. जीवितं हि नाम जन्मवतां चतुःपञ्चान्यहानि (दशकु०)। १५. अयं पयस्कामः । अयं परमपयःकामः । किंहेतुक: साहितिको विशेषः । १६. अयःपात्रमायसं पात्रमुच्यते तद्धितवृत्त्या । ११. दुःखेनेत्यत्र इदुदुपधस्य चाप्रत्ययस्येति विसर्जनीयस्य षत्वमभि- शङ्कन्ते। तत्र सुख दुःख तत्क्रियायामिति विसर्जनीयोपधो धातु: पठ्यते, तस्येदं रूपमित्येवं शरणदेवः समाधिं ब्रूते दुर्घटवृत्तौ । १२. भोस्तातेति प्रयोगः । रोविसर्जनीये विसर्जनीयस्य सः इति सकारः। १३. नमस्पुरसोर्गत्योरिति गतिसंज्ञस्य नमःशब्दस्य नित्यं विसर्जनी- यस्य सः । साक्षात्प्रभृतीनि चेति वैकल्पिकी सत्यपि गतिसंज्ञे- हाश्रिता, क्त्वो ल्यपो विधानात् । १४. चतुष्पञ्चान्यहानीति वक्तव्यम् । इदुदुपधस्येति षत्वेन भवित- व्यम् । चत्वारि वा पञ्च वेति विग्रहे बहुव्रीहौ संख्येये डजबहु- गणादिति डचि रूपम् । १५. पयस्काम इत्यत्र अतः कृकमिकंसेत्यादिना विसर्जनीयस्य सकारः । परमपयःकाम इत्यत्र पय इत्युत्तरपदम् । नित्यं समासेऽनुत्तर- पदस्थस्येति निषेधात्सत्वं न । १६. अयस्पात्रमित्येव युक्तम् । अतः कृकमिकंसेत्यादिना नित्यं सत्वम् । इति विसर्गसन्धिविवेचनम् १. अभ्यस्येत् । म्ना अभ्यासे ।