पृष्ठम्:शब्दापशब्दविवेकः.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ शब्दापशब्दविवेके


७४. अद्य प्रात एवातपः प्रखरोऽभूत् । ७५. आर्द्रगोमयेण लिम्प महानसभूतलम् । ७६. गौर्गौः कामदुधा सम्यक् प्रयुक्ता स्मर्यते बुधैः। दुःप्रयुक्ता पुन- र्गोत्वं प्रयोक्तुः सैव शंसति (काव्यादर्श) ।। ७७. कश्चित् भूमिस्थोऽपि दिविषदमात्मानं मन्यते । ७८. म्लायन्त्यङ् गुलिसङ्गेऽपि कोमलाः कुसुमस्रजः । ७९. तत्र तटिनीतटे सर्वं नीरवं निष्पन्दं चासीदिति भीराविशन्नः ।१ ८० सुस्थिते को न पण्डितः। ८१. नाहो न रात्रिर्न नभो न भूमिर्नासीत्तमो ज्योतिरभूच्च नान्यत् (वि० पु० १।२।११)। ८२. पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम् । वस्तुवृत्तानुरोधेन कथं तत्राप्रमा वचः (सुरेश्वराचार्यकृत- सम्बन्धवार्तिके)। ७४. प्रातरेवेति साधु । प्रातर् इति रकारान्तमव्ययम् । तेन रुत्वय- त्वशाकल्यानामप्राप्तिः। ७५. पदव्यवायेऽपीति निषेध पदव्यवायऽतद्धिते इति वचनान्नेह प्रवर्तते । तेन प्रकृतेऽदोषः । मयट् तद्धितः । स च स्वादिः । स्वादौ पूर्वं पदमिति गोशब्दः पदम् । ७६. दुःप्रयुक्तेति दुष्प्रयुक्तम । इदुदुपधस्य चाप्रत्ययस्येति षकार- विधानात्। ७७. अम्बाम्बगोभूमीत्यादिसूत्रेण मूर्धन्यादेशे भूमिष्ठ इत्येव साधु । ७८. समासेऽङ्गुलेः सङ्गः इति मूर्धन्यादेशेऽङ् गुलिषङ्ग इत्येव साधु । ७९. निस्पन्दमित्येव साधु । स्पदि ईषच्चलने इति धातु: । नात्र षत्वं शास्त्रदृष्टमित्युपेक्ष्यम्। ८०. सुः पूजायामिति कर्मप्रवचनीयत्वे सुस्थित इति साधु । पूजा चेह धात्वर्थस्तुतिरभिमता। साधु यथा स्यात्तथा स्थितः सुस्थित इत्युच्यते। ८१. नाहो नेत्यत्र अहन् इति सूत्रेण रुत्वं न युक्तम् । तस्य रोऽसुपी- त्यनेन बाधात् । रेफे सति नाहर्नेत्येव न्याय्यम् । ८२. प्रमिण्वन्तीत्यत्र डुमिञ् प्रक्षेप इति धातु: । तत्रोपसर्गकृतं वि- करणस्य णत्वं केनापि शास्त्रेण न विहितम् । हिनुमीना(८।४।१५) इत्यत्र तु मीञ् हिंसायामित्यस्य श्नाविकरणस्य ग्रहणम् । १. भयमस्मानाक्रामत्, भयेनाविष्टा व्याप्ता वयमिति यावत् ।