सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२ ]
शब्दापशब्दविवेके

३३ - विलोक्यतां तावन्महात्मनामग्रेसरस्य श्रीमोहनदासकर्मचन्द्रस्य दिव्यं निदर्शनम् ।
३४-इह भूतले घटो नास्त्यनुपलब्धेः ।
३५–पर्वतो वह्निमान् धूमात् ।
३६-स्वार्थस्य पङ्के निपतन्ति प्रायेण पुरुषाः।
३७-स्रवति१ न गरलं वा पादपश्चन्दनस्य ।
३८–देशभक्तिप्रयुक्तेन तेन महाभागेन मिथः कलहस्योपशमाय प्राणाना- महुतिर्दत्ता ।
३९-घ्नतः पृष्ठं ददाति ।
४०–इदं च स्वेन स्वीकृतस्यार्थस्य विरुद्धमिति कथं नेक्षसे ?
४१–दरिद्रानातुरान्निःशुल्कमुपचरन्तो भिषग्वरा यशसो भगिनो भवन्ति ।
४२-शतशः संवत्सरादनुभूतां दासतां दूरीकृत्य साम्प्रतं स्वातन्त्र्यसुख मनुभवामः ।
४३-षोडशाब्दे वयः प्राप्ते संज्ञायास्तत्पिता सुखी ( भविष्यपुराणे प्रतिसर्गपर्वणि ३।४।१८४ ) ।
४४–मासोऽयं माधवस्यासीत् । नवकुसुमविकासात्सौरमयोगेनायं सुर भिरित्यप्यभिधीयते ।
४५–परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः।
४६–वस्त्रेष्ववधीद् दासीं कृष्णः ।
४७-पश्यत एव हरति स्वर्णं स्वर्णकार इति पश्यतोहर इत्युच्यते ।
४८-भाषतो बहुकाकस्य बलिनः पततां वराः। इदमूचुः स्म चक्राङ्गा वचः काकं विहङ्गमः ।। (भारते कर्णपर्वणि ४१।२१ )।
४९-रात्रौ रोचमान इन्दुः कस्य न प्रियः ।
५०-इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतूहलेनागतोस्मीमामुज्ज्ञयिनीम् ( चारुदत्ते )।


१ अन्तर्भूतण्यर्थोयं बहुलं प्रयुज्यते शिष्टैः। अत्रार्थेऽस्मत्कृतिरनुवादकला द्दृष्यताम् । तत्र ‘विषयप्रवेशे’ उदाहृतयः प्रपञ्चिताः ।