२१२–पुरा प्रजाः प्रजेशानन्वरज्यन्' विरलमेव च तानद्रुहन् ।
२१३–इतः कान्यकुब्जो नाम विशालो जनपदः, यत्राङ्गपालो नामावनि पतिरीष्टे स्म ।
२१४–ततः स राजा कांचिद् वृद्धां धात्रीवेषे शत्रो राजधानीं प्रजिघाय ।
२१५-इमे शिशवः सद्यो निद्रायाः प्रबुद्धाः प्रमार्जन्त्यक्षीणि।
२१६-परार्थवटकः श्रेष्ठी दुर्गतोद्धारे बहुधनं व्ययं करोति ।
२१७-न जाने मया किं करिष्यति नृशंसो दुरात्मा ।
३१८-तदा शासिता निद्रयेवाजागो भयं चोपस्थितमदर्शत् ।
२१९बिल्हणः किल काश्मीरेभ्यः प्रपलाय्य कर्णाटेषु शरणं प्रपेदे ।
२२०-राष्ट्ररक्षप्रयुक्ता राष्ट्रिया लघुवेतन एव सेनास्वङ्गभावमभजन् ।
२२१–धिक् तं हताशं यस्मान्न पिता प्रसीदति न च गुरुः ।
२२२-क्षीरौदनं गन्धयुतं विधाय समादयत् किञ्चित् तत्तनूजम् ।
२२३--विरतिशून्यपुंसां पीतवेषान्न लाभः ।
२२४-हिन्दीति भाषा संस्कृताद् विकृतेत्यभ्युपगमः ।
२२५-सकृत्पतिता न शेकुरात्मानमवनत्या अवटाद्४ उद्धर्तुम्।
२२६-रजकाय वस्त्राणि ददातीमानि निर्णिज्य५ रज्यन्तामिति'।
२२७–खण्डिकोपाध्यायः शिष्याय चपेटां ददाति मिथ्या कारयमाणाय ।
२२८–पुत्रात्प्रमोदो जायते ।
२२९–अहिंसा परमो धर्म इति शास्त्रडिण्डिमेन बर्तमानहिन्दूनां हृदयेभ्यो युयुत्सान्गुण एव विनाशितः ।
२३०–रत्यादिः स्थायिभावो विभावादिभिर्व्यक्तो ध्यादिन्यायेन रूपान्तरं परिणतो रसो भवति ।
२३१-परीक्षोपयोगिषु लेखेषुपेक्ष्य न शक्यमस्याः पत्रिकायाः सर्वेप्रियत्वं सम्पादयितुम् ।
१ कुषिरञ्जोः प्राचां श्यन्परस्मैपदं चेति कर्मकर्तरि परस्मैपदं वा । २ प्रहितवान् । ३ जागृ निद्रक्षये इत्यस्माल्लङ्। ४ गर्तात् । ५ संशोध्य । ६ वर्ण्यन्ताम् । ७ असकृद् अन्यथोच्चरयते ।