सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ २५
कारकविभक्त्यधिकारः

१९४–कौसल्यया रामो जातः सुमित्रया च लक्ष्मणः, तथाविधं स्थ तयोः सौभ्रात्रमिति’ चित्रीयते लोकम् ।
१९५-इदं तु भवतां विदितचरमेव संस्कृताधीत्यामनुरक्तोहं न किमप्या भीलमगण्यम् ।
१९६–फलैर्नानारसैः शुद्धेः स्वादुशीतैश्च वारिभिः । तृप्तास्तां भ्राजथुमती मपृच्छन्कस्य पूरियम् ।
१९७--एतमातं ङितं विद्याद्वाक्यस्मरणयोरडित् ।
१९८-विषवृक्षोपि संवर्ध्य छेत्तमसाम्प्रतम् ।
१९९-धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि । आह चायमिमं दीर्घं मन्ये धातुर्विभाषित: ।
२००-पक्त्वौदनो भुज्यते ।
२०१–वक्ष्यति कर्मणि द्वितीया । काशिकायां वृत्तौ )।
२०२–एतददेशजा दासवदनुकुर्वन्त्याङ्गलानाम् ।
२०३–वदन्त्यपर्णामिति तां पुराविदः ( कुमारे ५-२८) ।
२०४–रावणस्येह रोक्ष्यन्ति५ कपयो भीमविक्रमाः ( भट्टौ ८|१२० )।
२०५–अपि सिञ्चेः कृशानौ त्वं दर्पं मय्यपि योऽभिकः । (भट्टौ ८।९२)।
२०६-प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् । चरणौ रञ्जयन्त्वस्या श्चूडामणिमरीचिभिः । (कुमारे ६।८१ )
२०७--मुनित्रयं नमस्कृत्य गुरून् ध्यात्वाथ भक्तितः । शब्दापशब्दयोरेष विवेकः प्रवितन्यते ॥
२०८–न पठेद्यावनीं भाषां प्राणैः कण्ठगतैरपि ।
२०९–धन्यास्ते ये मनसा वाचा कर्मणा च हिंसावृत्तेर्विवर्जिताः ।
२१०–मुच्यते सर्वपापेभ्यो विष्णुलोकं च गच्छति ।
२११–सवैः पापैः प्रमुच्यते ।


१ शोभनो भ्रातऽस्येति सुभ्राता। ‘वन्दिते भ्रातुःकवभावः । तस्य भावः सौभ्रात्रम् । २ चित्त्रीकरणं विस्मयनं विस्मापनं च । तेन लोकमित्यत्र द्वितीयोपपन्ना । ३ आभीलं कष्टम् । ४ दीप्तिमतीम् । ५ रुजो भङ्ग इत्यस्माल्लृटि ।