सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ २१
कारकविभक्त्यधिकारः

११५-इदानीं सर्वनाशे स्वल्प एव समयोऽवशिष्यते । अद्यापि न जाग्रति लोका इति चित्रम् ।
११६–विबुधभारत्याः प्रणयिन इह मनागवदधताम् ।
११७-संस्कृतज्ञा लोकव्यवहारेण नितरामनभिज्ञा इति दूषणं न तु भूषणम्।
११८–अपरिचिता एव लोकवृत्तान्तेभ्यो भवन्ति कुमारा यावद् वृद्धान्नोपासते।
११९-पुराकालस्यं तु परमेश्वरो विजानीयात्, अद्यत्वे तु वाङ् मात्रेण धर्मे समादरो लोकस्य ।
१२०-इदं च संस्कृतं पिपठिषून् सर्वप्रथमं बोद्धव्यं कृशा हि नो वृत्तिरिति ।
१२१-यावच्छक्यं सन्मार्गपथिकता लोकान्नेतव्या श्लक्षणैर्वचोभिः ।
१२२-नहि शुकवच्छक्यते पाठयितुं बालान् ।
१२३-यादृशी ३प्रवचनशैली साम्प्रतं प्रचरति सैवास्माभिश्छात्रेभ्यः शिक्षणीया।
१२४–परोपकाराय नियुक्तचेतसां यत्सुखं न तत् स्वार्थानाम्४ ।
१२५–ब्रूहि सुग्रीवं वानरानाहूय सर्वासु दिक्षु विदिक्षु च ते प्रेष्यन्ताम् इति ।
१२६–सखीजनादात्मवञ्चनावृत्तान्तं श्रुत्वा सा परं विषसाद ।
१२७--सापराधे प्रहिले शिष्ये भृशं कुप्यन्ति गुरवः।
१२८—न्यग्भूतस्य योधस्य मुखं भूमौ स्पर्शयति प्रतियोधः ।
१२९--अस्माकं पूर्वजानां पुस्तकानि पठितुं न प्राप्यन्ते स्म ।
१३०–अहो वत महत्कष्टम् । य एव दुःस्मरः कालस्तमेव स्मारिता वयम् ।
१३१ अनृतं हि ५पतनीयेषूतमम् इतीदं बलवज्जुप्सन्ते शास्त्रकाराः ।
१३२-किमिति बद्धलक्ष्यो भवानिमां स्थालींं होराभिर्बहीमिर्निध्यायति ।
१३३–दिशि दिशि परीताऽस्य विदुषः कीर्तिराचन्द्रदिवाकरं स्थास्यति ।
१३४–यदि कल्पस्य कलिती कश्चिद् गृह्योक्ततानि कर्माणि संशोधयेत्संक्षि
पेच्च तदा लोकस्यानल्पमुपकुर्यात् ।


१ जीविका। २ मसृणैः,चिक्कणैः,कोमलैरिति यावत् । ३ अध्यापनविधिः। ४ स्व एवार्थः प्रयोजनं येषाम्, ते स्वार्थाः,तेषाम् । ५ पतनीयं पापम् ।