सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६ ]
शब्दापशब्दविवेके

२६-भ्रमरो हि भ्रमंस्तत्र पुष्पाणां चिनुते मधु ।
२७–शान्तो मुनिर्मृदुर्भवति द्विषद्बवो मृदुरागस्कृद्भयः ।
२८–यतिर्नाम न परस्य कस्यचिद्द्वेष्टि न च क्वचित्सविशेषं रज्यते ।
२९-तत्र चिकीर्षितं देशोन्नत्यभ्युपायं जिज्ञासे ।
३०–ब्रह्रौब जगद्रूपे परिणतमित्याहुरविद्वांसः
३१-कामं मुनिवेरेषोऽयं परं नैष मुनिर्भवितुं शक्यः ।
३२–तनुरियं ते तनुरसहिष्णुरातपस्य। तेन मुहूर्त्तां प्रच्छायशीतलेऽस्मि स्तरुतले विश्रमयात्मानम् ।
३३–दूरक्षाः स्त्रिय इति न तासां जन्मन्युत्सवो भवितुं शक्य इति केचि दुत्प्रेक्षन्ते ।
३४-यो ह्यध्ययनात्परिग्लानः३ स दुःखं तत्र प्रवर्त्य इति सत्यम् ।
३५-सहोदराणामिव परस्परं प्रीतिमन्तः परस्परमनुव्रताश्च लोका अभ्युदयन्ते” ।
३६–प्रायेण पापो दुर्गतो जुनः स्वं कर्मानुपालभ्य "परिसृष्यति दैवाय ।
३७-न वार्यपि प्रयच्छेत्तु वैडलव्रतिके द्विजे । ( मनुः ४-१-९२)।
३८–ये वदितारो जनापवादान् प्रहीतारो वोत्कोचांस्ते६ हीयन्ते परत्रेह च शर्ममणः ।
३९--स्यन्दन्ते७ सरितः सागराय, न च सर्वाः समुद्रगा भवन्ति ।
४०–किं कार्यं ते महाभाग ? भगवन्तमभिवादक एवागतोय जनः । कार्यान्तरं त्वस्य नास्ति ।
४१–गङ्गयामाप्लवमानस्य८ कूपेभ्यः किं प्रयोजनम् ?
४२–पितुश्चरणयोर्नुमति प्रातरुत्थितो भक्तिप्रह्वस्तनूजः।
४३–महीं क्षियतीति महीक्षिद्राजोच्यते ।
४४-यदेकस्मै श्रिय' नावश्य तत्सर्वेभ्यः प्रिय भवेत् ।


१ आगोऽपराधः। २ तनुरल्पा, कृशा । ३ क्षीणोत्साहः, असमर्थः । ४ उनमन्ति, समृध्यन्ति । ५ असूयति । ६ उपग्रहाणि । ७ स्रवन्ति । ८ स्नानमाचरतः । ९ निवसति ।