सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४ ]
शब्दपशब्दविवेके

५९-खं चतुष्पदा तच्च वृत्तं जातिरिति द्विधा।
६०–बहुश्रेयसी वैदिकधर्मरक्षेति वेद आम्नातिनः।
६१–कस्येयं रम्या रशना त्रिसूत्री १
६२-इयमार्षा भणितिः कस्य नाम नावर्जयति चेतः?
६३-यदि बुद्धिरेव प्रन्थानामादेयानादेयत्वे प्रमाणा तदा किं नाम वेदा दीनां स्वतः प्रामाण्यं स्यात् ?
६४–ते प्रभविष्णवः प्रभवन्ति नः । तेषु वयं काष्ठपुत्तलिकामत्रा एव स्मः ।
६५–अघिनश्वराऽऽकल्पान्त स्थायिनी कीfर्तरस्य महात्मनो भविष्यति
येन चिरं परदास्यं गतोयं देशः स्वातन्त्र्यं लम्भितः।
६६-स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा। इति भारतमाख्यानं मुनिनां क्रुपया। कृतम् । (भागवते १-४-२५)
६७–महत्वल्वन्तरं देवदत्तस्य च यज्ञदत्तस्य च। असावस्य शततमामपि कलां नार्हति ।
६८–यस्त्रैवर्णिकः श « तल्पमरोपयेत्, मन्ये स पतितः स्यात् ।
६९-इयं क्षीरपी क्षत्रिया । इयं सुरापी। अतो भिध्येते शीलेन ।
७०–अनुचरी प्रियतम मदालसा।
७१-गतगतः, नष्टनष्ट इत्याबाधमाचष्टे । आबाधो बाधेत्यनर्थान्तरम् ।
७२-कुवलयदलनीला कोकिला बालबूते ।

______


अथ विभक्तिषु विवेच्यानि ।


तत्र कारकविभकयधिकारः प्रथमः ।


१-नहि व्यवहितविप्रकृष्टमप्यर्थजातं सुधियामगोचरः। न हि तेषां किमपि
दुघंटमस्ति ।
२-को वर्णयेन्नृपगुणान् परश्शतेष्वपि श्लोकेषु ?
३-तरन्ति सन्तो जगतो महान्तः ।


१ आकल्पान्तं तिष्ठतीत्येवंशीला ।