सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२ ]
शब्दापशब्दविवेके

२०–धर्मस्याम्नातृषु पर्षत्सु रागद्वेषविनिर्मुक्ता ब्राह्मणा इष्यन्ते ।
२१-स्रिस्तस्यैकोनविंश्याः शत्याः प्रथमार्धे श्रीदयानन्दनामा यतिर्बभूव यः प्रचरति हिन्दुमते बहु परिशोध्यं परिवर्त्यं च ददर्श।
२२-ऋचया यदुक्तपूर्वं तदेव साम्नोच्यते । अतएव ऋच्यध्यूढं. साम गीयत इति च्छन्दोगा आमनन्ति ।
२३-इयं हि मे पाणिगृहीतिः सततं मय्यनुरक्ता नान्यं मनसाऽपि चिन्तयति ।
२४-विंशतिहायनीयं शालाऽद्यापि सद्यो निर्मितेव भाति ।
२५-इयं जरती, इयं च यूनी । तथाऽपि पूर्वो वपुष्मती सर्वदोद्युक्ता च । अपरा कृशा तुन्दपरिमृजा च ।
२६–परस्य युवतीं रम्यां सस्पृहं नेक्षते कः ।
२७-पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी।
२८-आश्चर्यम्। नेयमुक्तिरस्माकं श्रुतिगोचरी पुराऽभूत् । तेनैतां सहसा प्रत्येतुं न पारयामः ।
२९–सुन्दरयाऽनया शैल्या शिक्षितश्छात्राः संस्कारं कमपि लप्स्यन्ते नूनम् ।
३०-सेयं सेव्यतां सुधीभिः सुरसरिदिव पावना देववाणी ।
३१-सितासिते सरिते यत्र संगते तत्राप्लुतासो दिवमुत्पतन्ति” ।
३२-उषः ! चिरायुषी भूयाः, सुखं च जीव्याः।
३३-यत्र दैवी सम्पदा विलयमेति तत्र विपदा उपनमन्ति ।
३४-नैजां क्षमतां तावत्प्रसाधय ततो यद्वाञ्छसि तत्ते भविष्यति ।
३५–अथायेंगुर्वी प्रसन्नां मधुरां वाचमवोचदच्युतः ।
३६-इयं व्याकरणपद्धती सुदूरं प्रकृष्यते पद्धत्यन्तरेभ्यः ।
३७-त्वां कामिनो मदनदूतिमुदाहरन्ति।
३८-इमाः समुत्सादकरा प्रथः सङ्गत्मना निरोद्धव्याः ।
३९-सिन्धुदेशे महेञ्जोदाड़ोरित्यत्र चिरन्तना मृन्मयाः काश्चन मुद्रा अयुल्वानकेलेब्ध्राः ।


१ गरेिषत्सु . २ अलसा । ३ दायभाक् । ४ स्नाताः ।.५ इत्यृग्वेदे खिलपाठः । ६ समुत्सादो नाशः ।