अर्थगत्यर्थः शब्दप्रयोगः । अर्थं च यथा शब्दोऽवगमयति तथाऽप-
शब्दोपि । तथापि शब्दमभिनन्दति लोकोऽवक्षिपति चापशब्दम् ।
प्रियङ्करणो हि शब्दप्रयोगः । य इच्छेत्प्रियोऽहं लोकस्य स्यामिति स
शब्दाञ्छालयेत्साधीयश्च तान् व्यवहरेत् । आह च भगवान् भाष्यकारः
समानायामर्थगतौ शब्देन चापशब्देन च, शब्देनैवार्थोऽभिधेयो नापशब्देनेति ।
कश्शब्दः कश्चापशब्दः । सूत्रानुसारी प्रयोगश्शब्द उत्सूत्रश्चापशब्दः ।
सूत्रेष्वेव तत् सर्वं यद्वृत्तौ यच्च वार्तिक इति मतमाश्रित्येदमुच्यते ।
मतान्तरे तु संस्कारहीनश्शब्दोऽपशब्दः । स एवापभ्रंशः । अपशब्द-
परीहारश्च न सहेलं साध्यः । शब्दापशब्दविवेकनिबन्धनो हि सः ।
विवेकश्च विशारदस्यापि न सहसा जायते किमुत शारदस्येति प्रकृतो न यत्नः ।
वाचि शिक्षमाणस्य प्रथमवैयाकरणस्य साचिव्यं किमपि चिकीर्षामीति
प्रक्रममिमं प्रकृतोस्मि ।
अत्र पूर्वार्धे प्रायेण विनेयानां वाचि प्रतीतास्ते ते प्रमादानां गोचराः संगृहीताः प्रकरणशश्च निबद्धाः । प्राचामर्वाचां च ग्रन्थकृतामपि सन्देहास्पदं भूताः प्रभूताः प्रयोगा विमृश्य इति समाहृताः । न केवलं संस्कारहीना- श्शब्दा एवानुक्रान्ताः पदवाक्यानि च संस्कारवन्त्यपि व्यवहारमतिपतन्ति संनिवेशितानि । एकोत्तराणि पञ्च शतानि च केवलं व्यवहारतो दुष्टानि वाक्यानीह समुचितानि । उत्तरार्थे च संगृहीतपूर्वस्य महतः शब्दार्थ- सार्थस्य सोपपत्तिकं सप्रपञ्चं च साधुत्वासाधुत्वे विवेचिते इति सामासिको ग्रन्थप्रतिपादितोर्थः। अत्र कियान्मे प्रयासः कियती च सिद्धिरित्यत्र सदसतौ विवेक्तारस्तत्त्वं प्रतिपत्तारः प्रवक्तार एवेशते वक्तुम् । इदं त्वाशंसे कृतिरियं यथेष्टमुपकुर्याच्छात्रवृन्दस्य प्रबोधाय च पर्याप्नुयात् । इदं च भूयः कामये शस्त्रपरपारदृश्वानः पण्डितप्रवेका इमां मे क्रियां दृक्पातेन संभावयन् गुण- दोषतश्व परिच्छिन्दन्त्विति । इह मुद्रणे प्रवर्तमाने कृतेपि संशोधने क्वचि- त्क्वचिदन्यथा वर्णविन्यासो वर्णविलोपशचाभूदिति स सुधीभिः स्वयं सधुकरणीय इति नम्रं निवेदयन्विरमति
चैत्रपूर्णिमायाम्