सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ५२ )

तथा शुण्ठीपिप्पलीमरिचानां समुदायः 'त्रिकटु' इत्युच्यते न तु त्रीणि कटूनीति । अमृतसरसमित्युच्यते समासेन नगरनामधेयं न त्वमृतस्य सर इति वाक्येन । वाक्यार्थः क्रियेति वाक्येन संज्ञाया अनवगमात् । एवं चतुःशालमिति योर्थ उच्यते नासौ चतस्रः शाला इति वाक्येन । चतुः शालमिति चतर्षु दिक्ष्वेकत्रावस्थितानां शालनां संनिवेशविशेष उच्यते ।

 केचिच्छब्दा अविशेषे वर्तमानाः समासेन्तर्भूता एव प्रयुज्यन्ते । आह च स्युरुत्तरपदे त्वमी । निभसंकाशनीकाश प्रतीकाशोपमादय इति ( अमर० शूद्रवर्गे ) । सदृशवचना निभायोत्र गृह्यन्ते । तेन ताराधिपनि भानना ‍(सीता), आकाशनीकाशम् , काशसंकाशम् इत्यादेः स्थाने ताराधिपेन निभमाननं यस्याः , आकाशेन नीकाशम् , काशेन संकाश- मित्यादि न शक्यते वक्तुम् । उत्तरपदेऽमी इत्याह । उत्तरपदमिति च समा सचरमावयवे रूढम् । तेन वाक्ये निभादीनां सदृशवचनानामप्रयोग इति स्थितम् । कार्त्स्न्येऽवधारणे च वर्तमान मात्रशब्दो नित्यं समासचरमा वयव इति प्रयुज्यते न तु वाक्ये स्वातन्त्र्येण। तद्यथा--नहि रोगमत्र स्यैका चिकित्सा भवति । नहि ज्ञातमात्रो धर्मोऽभ्युदयाय भवतीति ।

 समासगताः केचिच्छब्दा अपूर्वार्थवाचका भवन्ति । तद्यथा—संख्या शब्दानां वृत्तिविषये पूरणार्थत्वं दृश्यते । त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यतेति कुमारे (५।५७)। त्रिभागस्तृतीयो भागः शेषो यासां तासु । एवं शतांशः, सहस्रांश इत्यादिषु बोध्यम्। शततमोंशः सहस्रतमोंश इत्यर्थात् । संख्याशब्दानां वृत्तिविषये वीप्सार्थत्वमपि लक्ष्यते । तद्यथा-सप्तपर्णः । सप्तच्छदः । सप्त सप्त पर्णानि वृन्तेऽस्येति विग्रहात् । मात्रशब्दो वृत्तौ तुल्यप्रमाणेपि वर्तते तद्यथा-भिक्षामात्रं न ददाति याचितः । भिक्षायास्तुल्यप्रमाणमित्यर्थः ।

 कचिच्च समासो नैवेष्यते । महत्कष्टं श्रित इत्येव भवति न तु महत्कष्टश्रित इति । उक्तं हि-सविशेषणानां वृत्तिर्न वृत्तस्य वा विषेषणं नेति । तेन ऋद्धस्य राज्ञः पुरुष इति भवति न च ऋद्धस्य राजपुरुष इति । भारतस्य प्रतिकोणं श्रीसुभाषस्य यशो गीयत इत्यत्र वाक्य प्रतिकोणमिति