सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४९ )

पूर्ववाक्येषु तात्पर्यग्रहाद्धेतुत्वे पर्यवस्यत्यर्थः, तथापि हेतुत्वं शब्दोक्तं नास्तीति लिङो लृङो - वा नैष विषय इति विंशदं विपश्चिताम् । देहाक्रान्ते भूतेथे ‘वर्तमानाद्धातोलृट् प्रयोग एव शिष्टाभ्यनुज्ञातोऽवि हितोपीत्यपि दिङ्मात्रमुदाहरामः -- न भविष्यति हन्त साधनं किमिवा न्यत्प्रहरिष्यतो विधेः (रघौ ८।४४ ) । तदयमपि त्वष्टुः कुन्दे भविष्यति चन्द्रमां इति (अनर्घ० २।८०) । श्रीरामायणे खल्वपि-हृता मृता च नष्टा वा भक्षिता वा भविष्यति इति (२।६०।८ ) ।

 उक्तो लकीरार्थविशेषः । इदानीं समासमधिकृत्य किंचिद् ब्रूमः । न वयं समासशस्त्रमुदाहृत्य समासाश्रयविधिं वा निरुच्य कृतित्वमात्म नोऽभिलष्यामः । उक्तः स विषयो भगवत सूत्रकारेण विवृतश्च वृत्यादिभिः । इदं तु विशिष्य विचक्षामः समासः क्वेष्यते क्व च नेष्यत इति । क्व समासेनैवार्थाभिधेयः क्व च व्यासेनैवेति । सत्यम् इष्टं हि विदुषां लोके समासव्यासंधारणमिति द्वावेव वाचां मागौं प्रथेते । तत्र कदा कस्य परिग्रह इति तावद् विवेच्यम्। अस्थाने क्रियमाणे समासे पदानामनिष्टो गुणप्रधानभावः प्रसज्यते । वाक्यप्रसादोपि बहुधा विलीयते । इदं तावत्कालिदासीयं वाक्यं विचिन्त्यताम्– जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तवेति । अत्र पुरुपदस्य यत्प्रधान्यं न तत्समासे सत्यवतिष्ठते । समासगतोऽयं शब्दः सम्बन्धमात्रमाह, नातोरिक्तं किंचित्। वाक्यगतस्तु स साभिप्रायं विशेषणं व्याख्यायते । बहुविधश्चाभि प्रायस्तत्र लक्ष्यते । अयं नाम वंशो यस्य कस्य न भवति किन्तर्हि प्रथां गतस्य पितृभक्तस्य पुरोः, योऽयमात्मनः सौख्यं तृणीकृत्य स्वं यौवनं जनकाय ययातयेऽददात्, जरां च तदीयां पर्यगृह्वात् । अत एवात्र प्रणि गदन्ति भाषामर्मज्ञाः-

 सम्बन्धमात्रमर्थानां समासो ह्यवबोधयेत् ।

 नोत्कर्षमपकर्षं वा वाक्यात्तूभयमप्यदः ॥ इति ( व्यक्ति० २।१७)।

एवमन्यत्रापि वाक्ये स्वातन्त्र्येण प्रयुक्तं पदं समासे गुणभावं भजते । यथा स तस्य स्यवो भावः प्रकृतिनियतत्वादकृतक इति भवभूतिप्रयोगे स्व इति