पृष्ठम्:शब्दापशब्दविवेकः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४१ )

दासः। तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जन इति भव भूतिः । इह बहु शक्यमुदाहर्तुम् । परं क्वचित्तच्छब्द उद्देश्यलिङ्गमपि गृहाति । तद्यथा—शरोरसाधनापेक्ष’ नित्यं यक्कर्म तद्यम् इत्यमरः। सा वीराशंसनं युद्धभूमिर्यातिभयप्रदेति च सः। यदधमर्णेनोत्तमणय मूलधेनातिरिक्त देयं तद् वृद्धिरिति काशिकायाम् ( qu१४७)। यद् सन्दिग्धमप्रयोजनं च न तत्प्रेक्षायत्प्रपित्सागोचर इति साङ्ख्यतत्त्वकौमुद्यां । वाचस्पतिमिश्रः । यदावेदयते राज्ञे तद्भाषेत्यभिधीयत इति मिताक्षरा । तदनन्तरं गवयो गवयपदवाच्य इति ज्ञानं यज्जायते तदुपमितिरिति मुक्तावल्यां विश्वनाथः । कचिच्च यच्छब्दोपि विधेयलिङ्गमनुसरति । तद्यथा—श्लेष्म वा एतद्यज्ञस्य यद्दक्षिणा ( ताण्ड्य ब्रा० १६।१।१३ ) । मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी ( शङ्खायन ब्रा० ५।१ ) । इति कामचारः सुष्ठुप्रदर्शितो भवतीति विरम्यते ।

 उक्त उद्दश्यविधेयभावः । विशेषणविशेष्यभावः सम्प्रत्युपक्रम्यते । भेदकं विशेषणं भेद्यं विंशेष्यमिति सामान्येन लक्षणम् । यदनेकप्रकार वद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थाप्यते तद् भेद्यम् । सर्वार्थः स्वरूपेण सामान्यतो ज्ञातोपि स्वगतेन विशेषेण पुनरनिर्जातो भवति । तस्य च येन निर्ज्ञातस्वरूपेण गुणवचनादिना योगो भवति स्वस्य रूपस्य परिच्छेदाय तद्भेदकं विशेषणम् । तच्च परार्थमिति गौणं भवति । तथा चोक्त’ वाक्यपदीये --

विशेष्यं स्यादनिर्ज्ञातं निर्ज्ञातार्थो विशेषणम् ।
परार्थत्वेन शेषत्वं सर्वेषामुपकारिणाम् ॥

( वृत्तिसमुदंशे ७ कारिकायाम् ) । इति ।

 क्वचिद्विशेषणविशेष्ययोः कामचारः । यत्रोभावपि गुणशब्दौ वा, क्रियाशब्दौ वा, गुणक्रियाशब्दौ वा तत्रैकतरं विशेषणं भवतीतरच विशेष्यम् । तथा च पर्यायेणोपसर्जनभावः । तद्यथा खजकुब्जः कुब्जखञ्जः । पाचकपाठकः पाठरुपाचकः । खञ्जपाचकः पाचकखञ्ज इत्यादि ।

 विशेषणमप्रधानमित्युक्तम् । द्वयोरप्रधानयोः प्रधानापेक्षावतोर्नास्ति