पृष्ठम्:शब्दापशब्दविवेकः.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४० )

कर्मत्वे व्यवस्थिते । अत्र सुवर्णपिण्डिः खदिराङ्गारसवर्णे कुण्डले भवत इति भाष्यसेव लिङ्गम् । तत्र नागेशोक्तिरप्यस्मदुक्तस्योपस्तम्भिका–खदि राङ्गारसवर्णे कुण्डले भवत इति प्रयोगादच्व्यन्ते विकृतेः कर्तृत्वं बोध्य मिति । तथा चैतरेयब्रह्मणे तादृशे विषये विकृतेः कर्तृता दृश्यते – तेषां ( देवानां ) या एव घोरतमास्तन्व आसंस्ता एकधा समभरंस्ताः सम्भृता एष देवो ( रुद्रो ) ऽभवत् इति (३।३३)। यस्मिन्सर्वाणि भूतान्यात्मै वाभूद्विजानत इति यजुषि तु तात्त्विकस्य विकारस्याभावेपि विकारविव क्षायामात्मनो विधेयस्य कर्तृत्वं व्याख्येयम् । परयमप्युत्सर्गे नाऽनास्क न्नोऽपवादेन । अत्र सर्वे एकं भवन्तीत्यत्रोपनिषत्प्रयोग उद्देश्यस्य कर्तृत्व दर्शनात् । तेनान्तर्वाणयो निर्जीवन्तु किमत्र कामचार एवाभ्यनुज्ञात आहो स्वूिद् व्यवस्थितिरपि काचिदस्तीति । विधेयस्येतिना परिच्छेदे तस्यैव कथं त्वकर्मत्वे व्यवस्थिते इत्यपि न शक्यं मुक्तसंशयं वक्तुम् । कालान् दिकृता वस्तुधर्मा वयःप्रभृतयोऽवस्थेत्युच्यत इति ककुदस्यावस्थायां लोप इति सूत्रे काशिकायां विधेयस्य कर्मत्वमस्तीति नापह्नूयते । योग भाष्ये तूभयथा दृश्यते । तद्यथा—सर्वभूमिषु सर्वविषयेषु सर्वथैवा विदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते ( २३१) । एक विषयाणि त्रीणि साधनानि संयम इत्युच्यत इति च तत्रैव (३४ )। तत्र लम्बाम्बरः कल्पतरव एव वैजयन्तीति संभाव्यत इति कुमारे (६।४१) मल्लिनाथः।

 इदमिह प्रसङ्गाद् विमृश्यते यत्र वाक्य उद्देश्यविधेययोरेकत्वमापाद यन्ती द्वे सर्वनामनी प्रयुज्येते तत्र किं कस्य लिङ्गमुपादत्त इति । अत्राह तत्र भवान् कैयट-उद्दिश्यमानप्रतिनिर्दिश्यमानयोरेकत्वमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गमुपाददत इति । क्षीरस्वामी खल्वपि स्माह सर्वनाम्नामुद्दिश्यमानविधीयमानयोर्लिङ्गग्रहणे कामचार इति ( अम रोद्घाटने)। यदि यच्छब्द उद्देश्यलिङ्ग गृह्णाति तदा तच्छब्द उद्देश्यलिङ्गमेव गृह्णीयाद् विधेयलिङ्गं वेति कामचारः । तथापि विधेय लिङ्गानुसरणं प्रायिकं पश्यामः । शैत्यं हि यत्सा प्रकृतिर्जलस्येति कालि