संख्येय इति बहुत्रीहिः । संख्येये डज़बहुगणादिति ढच् । १९३–स्निह्यति रकर्मकः । तेन शिशुके स्निह्यतीत्येवं वक्तव्यम् । १९४ - ईक्षतिरिह दैव- पर्यालोचने वर्तत इति कर्मण उपसंग्रहादकर्मकः । तेन दैवमिति कर्म न पृथक्प्रयोगमर्हति । १९५–मेघर्तिभयेषु कृय इति खचि मुमागमे टापि भयंकरेत्येव रूपम्। ङीपोऽप्रसक्ते । १९६–कौसल्यायां रामो जातः, सुमित्रायां च लक्ष्मण इत्येवं वक्तव्यम् । जनिक्रियायां मातुरधिकरणतां विवक्षन्ति शिष्टाः। सोऽयं विषयो भूमिकायां विशदं सविस्तरं च व्याख्यातः । १९७–मायावि मित्रमित्येव साधु । मित्रमिति नित्यं नपुस्- कम् । स्वमोर्नपुंसकादित्यमो लुकि नलोपः शातिपदिकान्सस्येति नलोपे सिद्ध सायाधीति । १९८–सुन्दर्याऽनया शैल्येति वक्तव्यम् । गौरादि त्वान्ङीष् । १९९यती प्रयत्नं इतीदित् । स्वीदितो निष्ठायामितीर्निषेधेः यत्तमित्येव साधु। २००–जाणु निद्राक्षये इत्ययं सेट् । अनेकाच्वात् । जाम्रोऽचिचिण्णडित्सु इति गुणः। तेन जागरित इति साधु रूपं निष्पन्नम्।
इति प्रकीर्णकं विवेचितम् ।
इत्थं विवेचिते रूपे शब्दानां साध्वसाधुनी ।
विनेयानां प्रबोधाय विनोदाय च तद्विदम् ॥ १ ॥
यद्यमीभ्यः स्वदेतेयं हरिणी हृदयङ्गमा।
ब्वेिचना प्रमन्नेति सकामः स्यामहं तदा ॥ २॥
तेनेति मेऽर्थना नम्रा दोषज्ञा वीतमत्सराः ।
कृपया परयाऽऽविष्टा विमृशन्तु क्रियामिमाम् ॥ ३ ॥
न वैदुष्येऽभिमानु मे कर्मण्यत्र प्रयोजकः ।
न च द्वैकदृक्यं तु प्रपित्सा केवला मता ॥ ४ ॥
वाचामुपुस्क्रियां झां चिदियमास्यति ध्रुवम् ।
कृति: शैक्षस्य लोकस्य प्रत्ययोऽयं ममन्तरः॥ ५ ॥
तामिमां प्राभृतीकृत्य वाग्विद्योभयजन्मनि ।
अर्पयामीश्वरे प्रह्वः प्रमना विरमामि च ॥ ६ ॥
इति श्रीगुरुदेवशास्त्रिणः कृतिषु शब्दापशब्दविवेको नमाऽयं
ऐन्थः पूर्तिमगात् । शुभं भूयादध्यापकानामध्यायकानां च ॥