सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२० ]
शब्दापशब्दविवेके

१२०-भाषायां तिङन्तेन समासो नेति नाद्रियन्त इति वक्तव्यम् , न तु नकृन्तत्पुरुषः समाश्श्रेयः । अपचसि त्वं जाल्मेत्यत्रापचसीति नञ्समासो न, पृथक्पदद्वयमेतत्। नेलोपो नमस्तिङिक्षेप इति वार्तिकमप्राप्तं नलोप्सेदु है विधत्ते । १२१ -व्युत्क्रम्येतेति तु वाच्यम् । क्रमः परस्मैपदद् एव क्रमेरुपधाया दीर्घविधिर्न तु कर्मण्यात्मनेपदे। १२२-६तम् । शतो निबन्धानां संग्रह इति वक्तुमुचितम् । विंशतिप्रभृतयो नवनवत्यदातु संख्यावचनाः नियामेकत्वे प्रयुज्यन्ते संख्येये वर्तमानाः। १२३-—कद्विति ६ मिति कठोरेण समानार्थकं सुषिरप्रतियोगि। कूरेप्युपचर्यते । कृच्छुसार नास्य प्रवृत्तिः क्वचित्साहित्ये दृष्टेति तत्रर्थे आधुनिकोऽस्य प्रयोqम् । दूष्यः । १२४–त्रिंशद्वर्षाः, वयसा त्रिंशद्वर्षे इति वा वक्तव्यम् । त्रैिः वर्षाणि भूत इति विग्रहः। चित्तवति नित्यमिति ठचो लुक् । १२५-संस्कृ- तज्ञ तरेषामिति तु साधु। इतरशब्दो हि सर्वनाम सर्वादिगणे पाठात् । न च तत्पुरुषे सर्वनामता प्रतिषिद्धा शास्त्रेण । १२६-ब्रह्महस्तिभ्यां चर्चेस | इत्यचि समासान्ते ब्रह्मवर्चसमिति भवति । तत, इनौ ब्रह्मवर्चसिन इति रूपम्। सान्तत्वाभावाद्विनेरभावः । १२७—कियन्तिचिद्वर्षाणीत्यत्यन्त- संयोगे द्वितीया प्रयोज्या । तृतीया त्वपवर्गे विहिता । अपवर्गाचेह नास्ति। १२८-भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियामित्यमरा भव्येन भावुक समानर्थकं क्लीबम् । सहृदयं सचेतसं तुनेदमाचष्टे । तेन सहृदयानामिति । वक्तव्यम् । १२९--बाष्पयानमित्यत्र पूर्वपदात्संज्ञायामग इति णत्वं प्राप्नोति । क्षुभ्नादित्वान्न भवति । क्षुभ्नादिराकृतिगणः। अविहितलक्षणो । एत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्य इति युक्तम् । १३०–शृणोतिः परस्मै- पदी। तेन श्रुणु इत्येव साधु । .१३१–उच्चावचा इति मयूरव्यंसका दित्वात्साधु । उच्चावचं नैकभेदमित्यमरप्रामाण्यादुच्चावचं नानेत्यनेन समानार्थकम् । तेनैकतरं शक्यं हातुम्। नानेति हीयताम् । १३२–दोष- बिशेषं विशिष्टं दोषमिति वा वक्तव्यम् । १३३-—कांश्चन मासानित्यत्यन्त- संयोगे द्वितीया प्रयोक्तव्या । तृतीयया नार्थः । १३४ - ऋक्पूरब्धूः- पथामानक्ष इत्यः समासान्तो विहितः । तस्मिन्सति स्त्रियां टापि च वाजि-