१०५-ज्ञ ।नलोकप्रवर्तकनामिति वा वक्तव्यम् । तकारव्यवधानेन अकुप्वाडू नुम्व्यवायेपीति णत्वं न । १०६प्रबन्धशब्दः क्रियासातत्ये वर्तते, यथा नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोरित्यत्र पाणिनीये। तेन संबिधानं किञ्चिद्विधेयमिति वा संविधा काचिद्विधेयेति वा वक्तव्यम् । १०७-निबन्द्धव्या इत्येव साधु । तव्येऽनुनासिकलोपस्याप्रसङ्गात् । १०८ –स्रिष्टाब्दतो द्वयोर्वर्षसहस्रयोरिति वक्तव्यं प्रागिति चाप्रयोज्यम् । उपपादना च भूमिकायां कारकाधिकरणे द्रष्टव्या। १०९-स्पर्धायामाङ इत्यात्मनेपदे आह्यमानमिति साधु स्यात् । ११०=अभाययत्सीतामिति वक्तव्यम् । घुगात्मनेपदं च हेतोरेव भये सति -भवतो न तु करणापि । १११–अबिभेत् इत्येव साधु। शपः श्लुः। तिपि गुणः । ११२-विचेष्टे रन्नित्यत्र विशब्दो विरुद्धार्थमाह । नहि भवति विशेषेण चेष्टते विचेष्टत इति, किन्तहिं विरुद्धं चेष्टते इति । यथौदनस्य पूर्णाश्छात्रा विचेष्टन्त इत्यत्र । ११३-विधन इति बाध इति च (बाधेत्यपि च) पर्यायौ । पर्यायौ च पर्यायेणार्थं ब्रूत इति तथोच्यते । तेन युगपप्रयोगो नेति विघ्ना इत्येव पर्याप्तम् । ११४–ऐषम इति मकारान्तमव्ययम् । तेन नैषमः संभाव्यतु इति वक्तव्यम्। ११५-अलंकरणमिति ल्युडन्तम् । ल्युडन्तं नपुंसकम् । ननु करणाधिकरणयो विहितो ल्युट् बिशेष्यलिङ्गको भवति यथा राज- भोजनः शालय इत्यत्रेति चेदत्र ब्रूमः -यत्र खलु विशेष्यं नास्ति ल्युडन्ते च शब्दरूपं प्राधान्येन विवक्षितं भवति तदा नपुंसकमेव तद्भवतीति व्यवहारः। राजधानीत्यादिष्वश्रुतमपि विशेष्यं गम्यत एव । राजा धीयतेऽस्यां नगर्यामिति तद्व्युत्पत्तेः । ११६–गानेनेति वक्तव्यम् । गायनो गाथको भवति । गस्थकन्। ण्युट् च । ११७-प्रोपाभ्यां युजेरयज्ञपात्रेष्विति तङा भवितव्यम् । लूटि उपयोद्यन्त इत्येव साधु ! ११८-ओजःसहोऽम्भसा . वर्तत इति ठकि साहसिकशब्दनि- पत्तिः। साहसिकः पुरुषो भवति । तस्य कर्म साहसिक्यं भवति । तेन साहसिकं कर्मेत्यपास्य साहसमित्येवोच्यताम् । ११९–विंशत्याय आनवनवतेः स्त्रियामिति विंशतिञ्च पञ्चविंशतिर्वेति वक्तव्यम् ।
पृष्ठम्:शब्दापशब्दविवेकः.djvu/३८३
दिखावट