सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१४ ]
शब्दापशदविवेके

प्रत्यय इष्यत इति, श्रेष्ठतम इत्यदुष्टम् । २८—ननु इनः स्त्रियामिति कपः प्रसङ्गः । शोभनाः पन्थानोऽस्यां नगर्यामिति सुपथिकेति स्यात् । न पूजनादिति निषेधस्तु पचः प्राचीनानामेव। कप्प्रत्ययस्तु षच उत्तरः। सत्यम् । समासान्त विधेरनित्यत्वात्समाधेयम् । युवोरनाकौ इति सूत्र सुपथीति भाष्याच्च । सुपथीति रूपं च स्त्रियां नान्तलक्षणे ङीपि भत्वाङ्-ि लोपे सिद्धम् । २९--क्रमेरुदातत्त्वादिटि आक्रमितार इति साधु। ३०–चिरायुभूया इत्येव साधु । स्त्रीप्रत्ययनां ईप्डीटीनामप्राप्तेः। ३१-वणिग्व्यापारेणेति वक्तव्यम् । व्यापारशब्दः केवलो वाणिज्यं नाह । ३२–आत्मावलम्ब स्वाश्रया इति वा वक्तव्यम् । निर्भरशब्दस्तु नात्रार्थं क्वचित्प्रयुक्तपूर्वः । ३३-प्रम पय इति वक्तव्यं समस्तेन व्यस्तेन वा रूपकेण । षष्ट्या तु नार्थः। ३४-अपाङ्गशब्दो नेत्रप्रान्ते रूढः । रूढिर्योगाद्बलीयसीत्य पाङ्गशब्दो बलान्नेत्रप्रान्तं स्मारयति । तेन न्यङ्गानामिति वक्तव्यम् । ३५–रिक्तमित्यनुक्त्वाऽनुपयुक्तं निव्यापारमिति वा वक्तव्यम् । ३६-पञ्चवेंशतिक इति तु वक्तव्यम् । पञ्चविंशतिस्तरवानि परिमाणमस्य पदार्थव्यूहस्येति विग्रहः। तदस्य परिमाणमिति ठय. संख्यायाः संवत्सरसंख्यस्य चेत्युत्तरपदवृद्धिः। ब्रुस्तु विंशतित्रिशङ्कयां विहित इति पञ्चविंशतेर्न भवति । प्रातिपदिकग्रहणे तदन्तस्याप्रहणात् । ३७--योऽनया शिक्षां रहयति (त्याजयतीत्यर्थः ) इति वक्तव्यम्। रह त्यागे चुरादिष्व न्तः । ३८-यदाऽयं गाढं निद्भातीति वक्तव्यम् , गाढया निद्रया शेत इति बा । तत्रेत्थम्भूतलक्षणे तृतीया । शेते इति च निपद्यत इत्यनेन समानार्थ कम् । यथा शयाना वर्धते दूर्वेत्यत्र। ३९-मया मुखेनोतरितः प्रश्न इति वक्तव्यं मया वाचा प्रत्युक्तः प्रश्न इति वा। तद्धितवृत्त्या नार्थः । ४०अ श्रीबालस्यानुत्तमं चरितमिति वक्तव्यम् । आदशं मुकुरो भवति । तेन श्रीबालस्य चरितं लोकस्य लोकचरितस्य चाऽऽदर्श इति वक्तव्यम्। ४१–हुशेश्चेति वक्तव्यमिति णिच्यणौ कर्तुः कर्मत्वम् । अभिवादिः दृशोरात्मनेपदः इत्यात्मनेपद एब विकल्पः । ४२–परेणोदीरितोर्थस्तद्वचो ।