द्विरुच्यते । तथा चोक्त द्वौ क्वौ महदन्तरं सूचयत इति । ४६०-हस्त शतव्यवहिता हे दो शते इस्तिनः संस्थापिता इत्येवं वक्तव्यम् । हस्तशतान्तरा हस्तशतान्तरिता इति वा । द्विशतमिति द्वधिकं शतमित्यस्मिन्नर्थे प्रयुज्यते न शतद्वये । संख्याशब्दाः क्वचिद् वृत्तौ वीप्सायां वर्तन्त सप्तपर्णादिवत्, तेन द्विशब्दस्य द्विः प्रयोगो नापेक्ष्यते । ६१-एकतस्तावन्निसर्गात्तामसी भाद्रजनी, अपरतो नीलनीरधरपटल संस्तरेणेत्यादि वक्तव्यम् । घटाशब्दो मेघमालां नाहेत्युक्तमधस्तात् । ४२मन्त्रिभुवनं परिष्कृत्य समरज्यत सुदर्शनेन रागेणेत्येवं वृक्तव्यम् । रागेण हि रज्यतेऽर्थः, तेन रक्त’ रागादिति लिङ्गात् । रक्तस्याकारो वर्णाः । रागजन्यो हि स भवति न तु रजनसाधनम् । ४६३--कषायेण रूक्ता काषायी। तत्र रागशब्देन नार्थः। किं च रागो रजनसाधनं वा भवति लौहित्यं वा, न जातु वर्णः। ४६४–वार्ता प्रवृत्तिधृत्तान्त उदन्त इति पर्यायाः। वार्ता पृच्छति वृत्तान्तं जिज्ञासत इत्यर्थः। तेन न कश्चिदोषः । ४६५–दिष्ट्येत्यव्ययं क्रियाविशेषणत्वेन प्रयुज्यते सहर्षमिति चार्थः। तेन पादेन नार्थः । वर्धने वाक्प्रयोगोन्तभूतः । बर्धयामो वृद्धिमाशंसामह इत्यर्थः। तत्र सम्शब्देऽस्थाने। संवर्धनं हैि पोषणं भवति जलादिना पापा दीनां पय आदिना वा शिशुकादीनाम् । तडप्ययुक्तः । ४६६--अत्र व्यव च्छिर्चिच्छेदनपूर्वकेऽपनयने वर्तत इति सूच्या अपाचानता । अपादाने चाहीयरुहोरिति तसिः । ४६७--वाराणसीमेवाधिकृत्य प्रस्तृग्रतां विचार इत्येवं वक्तव्यम् । परिप्रहः स्वीकारो भवति । समानमेव सामा न्यम्। नहि सामान्यात्सामान्यतरं नाम किञ्चिदस्ति येन सामान्यादित्यत्र पञ्चमी विभक्ते इति पञ्चम्युपपद्यत । ४६८-धारासारैरवर्षीद् देव इति वक्तव्यम् । मुशलशब्दो धारायामुपमानमुपमेयं वा न युज्यत इति च्यवहारः । ४६-जागरूक इति वक्तव्यम् । सतर्क इति जागरूक इत्यर्थंऽप्रयुक्तम् । ४७०--कथाशेषतां यातमित्येवमुपन्यसितव्यम् । कथा शेषोऽस्येति कथाशेषम् ( बहुव्रीहिः), तस्य भावस्तत्ता, ताम् । कथायामं वशिष्टमित्येवं विग्रहे कथाद्वशिष्टमित्यपि निर्देष्टुं भाति, तथापि प्रयोगोऽस्य
पृष्ठम्:शब्दापशब्दविवेकः.djvu/३७३
दिखावट