सिद्धा मूनि स्थिति नै चरणैरवताडनानीत्यत्र भवभूतिप्रयोगे यथा। वसुंधरा- धिपत्ये पाष्णि र्दत्त इत्यपि शिष्टजुष्टा स्टुतिः । ४०--यज्ञमाहार्षीदिति ॐ वक्तव्यम्, व्यतानीदितिं वा। ४१०-केषु चिज्जीवेषु घ्राणशक्ति नास्त्येव, परेषु सा प्रवृद्धा लक्ष्यत इत्येवं वक्तव्यम् । रक्षतिहिं नात्रार्थं प्रयुज्यते । इदंजातीयकेष्वधिकरणनिर्देश एव व्यवहारानुपाती। ४११-रूढयाऽस्पृश्या, नामिति वक्तव्यम् । तथाकथितानामिति विशेषणं तु विपरीतार्थमाह । छ तथाशब्दो हि सत्यवचनःयथा वितथशब्दे । अस्पृश्या इति तेषां मिथ्या ऽभिलाप इति विवक्षति । ४१२–स्वशब्द आत्मवचन एकत्वे प्रयुज्यत आत्मवत् । एको नः सर्वेषामात्मेति, प्रत्येकं वाक्यपरिसमाप्तिरिति वैकत्वमुपपन्नम् । ४१३-ऊर्मिषु महत्सूलोलकल्लोलावित्यमरादुलोलकल्लोलौ समानाभिधेयौ । तेन लोलैः कल्लोलैरिति वक्तव्यम् ।४१४-घुट परिवर्तने भौवादिक आत्मनेभाषः । घुट प्रतिघाते तौदादिकः परस्मैभाषः । एतयोः द्वयोरप्यर्थः प्रकृते न संगच्छत इति घोटित इति दुष्प्रयुक्तम् । तेन कण्ठो : बलवन्निरुद्ध इति वक्तव्यम् । कण्ठो निपीडित इति वा । ४१५-इठि लुठि स्तेय इति भ्वादिषु पठितौ । लुठ विलोढन इति तुदादिषु। प्रकृते स्तेयं विवक्षितमिति लुण्ठितसर्वस्व इति वक्तुमुचितम् । ४१६--पूर्णस्य शरच्छ शाङ्कस्येति वक्तव्यम् । अल्पोर्थं बहुश्च शब्दाडम्बर इति शारदानां वाचि लक्ष्यते न विशारदानाम्। ४१७--सम्प्रदायादागतं साम्प्रदायिकं भवति । सम्प्रदायरच गुरुशिष्यपरम्परयाऽऽगतमनुशासनम् । तेनैकतमस्मिन्निकाये इति वक्तव्यम् । अथ सधर्मिणां स्यान्निकाय इत्यमरः । एकधर्मवतां । समूहो निकाय इत्युच्यत इति तदर्थः । ४१८–बहु कार्यं करोतीति द्वाि बिभेति सूत्रेण टः। शुद्धयौगिकश्चायं शब्दः कविना प्रयुक्तः । तथापि खलवि अस्य रूढिः। तथा च कोषः~वखलपूः स्याद्बहुकर इति । रूढिश्च बलीयसी योगादिति बहुकरशब्दो बलात्खलप्वं स्मारयति । तद् निष्टम् । तत्परिहार्यम् । सतां बहूपकारक इति तु वक्तव्यम् । ४१९ तदीयमुपकारभारं शिरसा वहाम इति वक्तव्यम् । आभार इत्य प्रयुक्तम् । ४२०-मातापित्रादिषु तक्षकेष्वपीति वक्तव्यम् । अभिपूर्वा
पृष्ठम्:शब्दापशब्दविवेकः.djvu/३६९
दिखावट