वाच्यम् । पूर्वत्र कालाध्वनोरत्यन्तसंयोगे इति द्वितीया । ३०७–सम्भाल- यितुमिति चिन्त्यम् । भल आभण्डने चुरादिरनुदात्तेत् । आभण्डनं निरूपणम् । प्रकृते तु नायमथः संगच्छते। इमं कार्यभारं वोदुमिति चक्तव्यम् । ३०८-आकृष्टिशक्तेरुपज्ञातेति उपज्ञाया इति वा प्रशस्यः श्रीन्यूटन इत्येवं वक्तव्यम् । तत्रोपज्ञाया इति हेतौ पञ्चमी। श्रयःशब्दो मोक्षेण समानार्थकः । तथा ह्याह-मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेय- सामृतमिति । यत् किञ्चित्प्रशस्यतरं तदपि श्रथः । उपज्ञायाः श्रेय इति तु नार्थ कमप्यर्पयति । ३०९–दशवर्ष एवेति वक्तव्यम्, वयसा दशहायन इति वा । दशवर्षावस्थेति दुर्घटः समासः। ३१०च्यत्परिणाम इत्येव । स्वरूपशब्देन नार्थः। यत्परिणामभूत इति तु शक्य बक्तुम् । ३११–आचार्यचरणेभ्य इति वक्तव्यम् । तत्पुरुषे समास उत्तरपदं चरण शब्दो बहुव्वे वर्तमानः पूजायचनो भवति न त्वेकत्वे। ३१२-स्थगन मावरणं भवति न रोधनं प्रतिषेधनं वा। प्रत्यादेशनमिति तु वक्तव्यम् । यथा विक्रमोर्वशीये जलदसमयं प्रत्यादिशामीति पुरूरवस उक्तिः । ३१३–व्यापारशब्दः कार्यासङ्गमेवाह न तु क्रयविक्रयव्यवहारम् । तेन रत्नानां व्यवाहरदिति वक्तव्यम्। व्यवहृपणोः समर्थयोरिति कर्मणः शेषत्वविवक्षायां षष्ठी। कर्मणि तु द्वितीया स्यादेव । रत्नानि व्यबाहर- दिति । ३१४–अनुषङ्गदागनमानुषङ्गिकम्। अनुषङ्गः प्रसङ्गः परम्परा सम्बन्धः । अत्र तेनार्थेन नार्थः । तस्माद् दैवाद्, यदृच्छयेति या : चक्तव्यम् । ३१५--न हि ष्यचः षिवात्सुलभो ङीष् सर्वत्र समुत्पाद्यः। न हि भवति ब्राह्मणस्य भावः कर्म वा ब्राह्मणीति । एवमत्रापि ङीष् । सौलभ्येपि पातिव्रत्यमित्येव प्रयोक्तव्यम् । व्याक्रियन्ते हि शब्दा व्याकरणेन न तु क्रियन्ते । ३१६--अधिमूल्युशय्यमित्येव ऋजुन्यासः। न हि स्वस्य । कोषपरिचयो न घोष्यः। शब्दढम्वरस्तु परिहार्यः। ३१७–कृते इत्य स्थाने। तस्य कारणादित्येवार्थः। स च प्रकृते नोपपद्यते । षष्ठ्यपि च। तदर्थस्यानुपलम्भात् । तेन महान्तं कालं मौनमालम्ब इत्येवं वक्तव्यम् । अत्यन्तसंयोगे द्वितीया । यावच्छब्दो वा प्रयोज्यःतद्योगेपि द्वितीयोप
पृष्ठम्:शब्दापशब्दविवेकः.djvu/३६१
दिखावट