सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९० ]
शब्दापशब्दांबवेके

भगवन्कुसुमायुध ! येन त्वं रूपशोभया निर्जितोसि तस्य त्वया न किमपि कृतमिति नायिकोक्तौ षष्ठीदर्शनादतिक्रामतोपि तस्येति यथास्थितमपि साधु स्यात् । २२८ -सुकृतदुष्कृताभ्योमिति वक्तव्यम् । सुकृतदुष्कृते हि. प्रतियोगिनी। २२९-–अत्र यावच्छब्दमन्तरेणाप्यत्यन्तसंयोगलक्षणया द्वितीयैवार्थलाभात् किं तेन । २३०-न्यायाधीश इत्याधुनिकैः कल्पित श्शब्द इति न समदरमर्हति । अत्र।र्थेऽक्षदर्शकः प्राविवाक आधिकरणिक इति वा प्रयोज्यम्। २३१–सहस्र वर्षाण्यायुरिति वक्तव्यम् । आयु • जीवनकालः । स बिशेष्यते । विशेषणेन च समानाधिकरणेन भवितव्यम्। नात्र संबन्धो विवक्ष्यते येन षष्ठी साम्प्रतिकी स्यात् । २३२–महत्तराः प्रतिमार्चका इत्यस्य स्थाने प्रतिमार्चकतरा इति वक्तव्यम् । अर्चक इति क्रियाशब्दः। योतिशयेनार्चति सोऽर्चतितराम्, स एव कूदन्तात् तद्धितः वृत्याऽर्चकतर इत्युच्यते। २३३–अचौरमपि तं चौर्येणाभियुयुजिर इत्येवं वक्तव्यम् । अभिपूर्वो युजिदषेण योजनायां वर्तते, धनाद्यागमस्कुतस्त्यता- पृच्छयां च । यो नामाभियुक्त इत्युच्यते स पृष्टो भवति, दोषेण योजितो वा। तस्मादचौरमपि चौर इत्यभियुयुजिर इत्यपाद्या न्यासः२३४–उप योगिनी, उपयोगवती, उपकारिका, औपकारिकीति वा वक्तव्यम् । कृत इति शक्यमुपेक्षितुम्। २३५–अत्र कृतः प्रतिसंस्कारः पूर्वत्रेति नेह पुन रुच्यते । २३६--न हि संस्कृते गभीरं निद्राणो गम्भीरं निद्रातीति वा कचिद् व्यवह्रियते । गाढत्वेन पुनर्विशेष्यते निद्रा। गाढं निद्राणः । गाढा । निद्रेति । गाढनिद्रया (उपलक्षितः) सुखं शेत इति वक्तव्यम् , अयं गाढं प्रसुप्त इति वा । २३७–दिवा वा दोषा वेति वक्तव्यम् । अयं हि श्रया- ल्यासः । प्रतियोगिनोरर्थयोरव्ययेनैवाभिधानात् । भारतस्य विरोधे, भारतस्य विरोधाय, भारतं प्रतीति वा वक्तव्यम् । तत्र विरोधे इति निमित्तसप्तमी । विषमुद्वमन्तीत्यस्य बहूनपशब्दान् प्रयुञ्जते बलवन्निन्दन्ती त्यर्थः । २३८–गङ्गाधरेणाहल्यायै यदावेदितं तत्तन्मुखेरितैरेव शब्दैराख्ये यमिति शैलीं शीलयन्ति शिष्टाः । गङ्गाधरस्श्व संनिहितां पुरोवर्तिनीमहल्यां युष्मच्छब्देन परामृशेन्न तु परोक्षार्थवृत्तिना तच्छब्देन । तेन त्वया राज्य-