द्विशब्दस्तु द्वित्वपरिच्छिन्नमर्थमाह। यमास्तु पञ्च भवन्ति नियमाश्चापि । ते समुदिता दश भवन्ति । तेन द्वावपीमान् यमनियमान् इत्युन्मत्त प्रलपितम् । १४८–आत्मानं निवेश्येति वक्तव्यम् । कन्यां हि पुरुषः वितन्यते परिणयति । नात्मानम् निवेशे हैि । दरकर्मपूर्वको परिणयमधिकृत्य गार्हस्थ्यप्रवेशः बहूक्तमधस्तादिति । दौष्यन्तिमप्रतिरथं नेह भूयो वचो तनयं निवेश्येत्यत्र शाकुन्तले यथा। १४९-नहि निघण्टुनिरुक्ते अनर्थके. अपि कदाचिद्भवतो येन स थुके इति विशेषणमर्थवत्स्यात् । तेन सार्थक मिति क्रियाविशेषणं योज्यम् । १५०–पूर्ववाक्ये युष्मानिति बहुवचनम् । युष्मदर्थस्य बहुत्वविशिष्टस्योत्तरवाक्य एकवचनान्तेन भवच्छब्देन प्रत्यवमर्श न युक्तः । तेन भवन्त आचक्षतामिति वाच्यम् । १५१-यथायथमिति यथास्वमित्यर्थे वर्तते । यथातथमिति तु वक्तव्यम्। १५२शिनां भाव एकः शैशवं भवति,नान्यत् किंचित् । तेन शिशूनामिति वा त्याज्यं शैशवस्य स्थाने वय इति वा प्रयोज्यम्। सामान्यवचनः कालशब्दो वा प्रयोक्तव्यः । . १५३–अर्थादिति पञ्चम्यन्तं पदं मध्ये वाक्यं पदान्सरेणासंदृष्टं न संस्कृते । प्रयुज्यते, लोकभाषायां तु बाढं व्यवह्रियते । तेन अर्थादित्यस्य स्थानेऽयमर्थं इति वक्तव्यम् । अथवाऽपिचेत्यादयो नि गातसमुदायास्तु विकल्पं पक्षान्तर मा रिति नेह प्रयोगमर्हन्ति । समाप्तेवर्यमवशिष्यत इति शेषे षष्ठी व्यवहा रानुपातिनी न तु सप्तमी, अधिकरणस्यासत्वान् । १५४–पुरुघर्थं इति. पुरुषस्यार्थो भवति यस्तेनेह जीब्रता साध्यः । धर्मार्थकाममोक्षाश्च चत्वारः पुरुषार्थाः । एत एव चतुर्वर्ग इत्याख्यायन्ते । पुरुषार्थ उद्योगो न भवति । तत्र पौरुषं पुरुषकार इति च प्रवर्तते । तेनोद्योगिन उद्यमिन इति वा वक्तव्यम् । १५५–संन्यस्तलोकः संन्यस्तसं फल्पः संन्यस्तकर्मेत्यर्थऽत्र संन्यस्तशब्दः प्रयुक्तः । अत्रोत्तरपदलोपो द्रष्टव्यः । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचर इति किराते दिदितशब्दे यथा। १५६इत्येवं समासवृत्त्या वक्तव्यम् । अध्युत्तरपददेव --द्वजाधीना प्रातिपदिकात्खो विधीयते न तु स्वतन्त्रादधिशब्दद्य नाधीनमिति पृथक्पदं स्य। त् । १५७. -दशावराणां विद्वत्पुरुषाणामिति वक्तव्यम् । विवृता चैव
पृष्ठम्:शब्दापशब्दविवेकः.djvu/३४७
दिखावट