तेन चिन्त्योऽयं व्यवहारः । एकाधिकारिणि राज्य इत्येवं न्यासोऽनवद्यः स्यात् । ८२-संश्रयणं संधीयत इति वा संश्रयः । उभयथsपि प्रीत्या मिति सहयोग इति च सप्तम्यौ नोपपद्यते। प्रीतिः सहयोगश्च राष्ट्रस्य संश्रय इत्येवं व्यवहरणीयम् । ८३–जनवचनः प्रजशब्दः स्त्रियां भूम्नि प्रयुज्यते प्रायेणेत्युक्तमधस्तात् । तेन प्रजानामित्यादि वक्तव्यम् । ८४-मुख- स्यै वसतिर्नमसस्थानमित्यर्थं न कश्चिद्दोषः। दयू-भवतामस्माकं च को विशेष इत्येवं वक्तव्यम् । भेदे ष्ट्य व व्यबहारनुगेति वाग्योगविदः। ८६-अन्यायाजितेन संगतं भवतीति वक्तव्यम् । संगतं सम्पृक्तकम् । ८७ - एकशतमित्येकाधिकं शतमित्यर्थं रूढम् । तेन सार्ध शमं वर्षाणीति वक्तव्यम् । ८८–वी नामोह्यते न तु क्हति। बहनस्य पुरुषकर्तृकत्वस्य प्रसिद्धेः । तेन नापरं पतित्वे वरीतुमिति युज्यते वक्तुम्। ८९–परस्परं कलह इत्येव शोभनं वचः। पारस्परिकशब्दस्याधुनिकैः कल्पितत्वात् । न हि यतस्ततस्तद्धितमुत्पाद्य नूत्नाश्शब्द निर्मेया वैयाकरणत्वं च स्वस्य प्रख्याप्यम् । ४०-उपयोगिनी, औपकारिकीति वा प्रयोज्यम् । ९१–तरपदेऽभिषेकमर्देयुरित्येवं घांच्यम् । न हि पदं नामभिषिच्यते किन्तहिं पदे कश्चित्तद्द भिषिच्यते। ६२-अत्र प्रागित्येव पर्याप्तम् । काले इत्यनेन नार्थः। एवमन्यत्रापि प्रातःकाले सायंकाळ इत्यादौ काले शब्दोऽप्रयोज्यः ॥९३-संस्कृतेन भवेदित्येन साधु । वाग्घि करणं द्वारमध्या- पनस्येति तृतीयैव युक्ता। ९४–प्रणिदध्यामेत्यत्र मन इति कर्मापेक्ष्यते । केवलस्य चिन्तनेऽप्रयुक्त:। बाढ ल्युडन्तस्य तत्रार्थे तदन्तरपि प्रयोगो दृश्यते। तदेतच्छब्दस्वाभाव्यम् । ९५-गुरुणा कृतं कुशलप्रश्नमुत्तरयतीति वक्तव्यम् । भावतक्षणायाः सप्तम्या नैव विषय इति भूमिकायां सविस्तरं निगदित- मिति तत एवावधार्यम् । ६६-तृ प्लवनतरणयोरुपूर्वः पारगमने वर्तते न तु प्रतिबचने। तेनोत्तरशब्दात्तकरोतीत्यर्थे णिचि लङि ‘उतरयत् इति साधु स्यात्। ६७-दिलीपात्सुदक्षिणायामिति व्यवहारः । सम्बन्ध- मात्रविवक्षायां दिलीपस्येति षष्ठमपि नासध्वी । भूमिकायां चायं विषयः कारकाधिकरणे वैतत्येन निरूपित इति तत एव विशेषोऽवधार्यः ।
पृष्ठम्:शब्दापशब्दविवेकः.djvu/३४२
दिखावट