वर्तमान इति वाच्यम्। ५३ -प्रकृतिरिति जगन्निदानं यत्साङ्ख्याः प्रधानमित्याचक्षते । सा चात्मवत्सूक्ष्माऽतीन्द्रियेति न दृष्टेर्गेचरः। यद् हृश्यते सा विकृतिः, स सर्गः। तेन अहो सुन्दरः सर्ग इति वक्तव्यम् । ५४–अहिंसायां व्रतमहिंसाव्रतम्। तदस्त्येषामित्यहिंसान्नतिन इति मत्वर्थीय इनौ सिद्धम्। व्यधिकरणबहुत्री हिस्वीकारे त्वहिंसात्रता इत्येव शोभनम्। ५५–परमोत्तमे इति पर्यायौ । तत्पर्यायाणां पर्यायत्वं यत्पर्यायेणार्थं ब्रुवन्तीति । आतश्च पर्यायवचना इत्युच्यन्ते । तेन परम इति वोत्तम इति वा भणितव्यम् । ५६-घ्रम् शंसति हिनस्तीति नृशंसो घातुक उच्यते । इदं च पुरुषविशेषणं भव न कर्मविशेषणमिति व्यवहारः। तेन नशंसस्य कमेंत वक्तव्यं नशंसत्वमिति वा । ५७-यद्यपि वैरशोधनं वैरनिंयतनमित्यनर्थान्तरं प्रसिद्धं तथापि प्रतिशोधशब्दः शोधनशब्दो वा तत्रायेंऽप्रसिद्ध इति परिहार्यः। ५८– ज्यायसि हिंसके सिध्यतीत्येवं वक्तव्यम् । ज्यायांसं हिंसकमासाद्यत्यर्थं मश्रित्य तु सर्वं यथास्थितं समञ्जसम् । तत्र ल्यब्लोपे कर्मण्युपसंख्यानमति पञ्चमी । ५–अननुष्ठित मननुवृत्तमनाचरितमिति वा वक्तव्यम् । क्रिययाऽसहचरितमिति वा । निष्क्रियं निश्चेष्टं भवति । ६०--द्विष अमी तावति सघर्मः। तेन न भूतमत्रिं द्विष्यादिति वक्तव्यम्। ६१-जनवचनः प्रजाशब्दः प्रायेण वहुवचने प्रयुज्यते । सन्ततिवचनस्तु यथापेक्षमेकत्वेपि दृश्यते—प्रजाः अजानाथ पितेव पासीति कालिदासे यथा। ६२- सृज विसर्गे इत्ययं धातुर्विपूर्व उरपूर्वः समुत्पूर्वो वा त्यागे प्रसिद्ध इति विसिसृक्षव इति यक्तव्यम् । ६३-परार्थप्रिय इति वक्तव्यम् । परमार्थस्तु भूता भवति, तत्वमिति यावत् । परमः पुरुषार्था वा परमार्थःयं परम पुमर्थमाहुः। स च प्रकृते नपेक्ष्यते । ६४-निलीना इति प्रच्छन्नस्तिरोहिता उच्यन्ते । श्रविष्टा अवगाढा इति वा वक्तव्यम् । सन्तमसमिति च द्वितीयान्तं प्रयो ज्यम्। ६५- सुकृतदुष्कृतनमिति वक्तव्यमुपक्रमसाम्याय । ६६–अस्ति फारकत्वविवक्षेति पुष्पाणि पुष्पेभ्य इति वा वक्तव्यं सम्प्रदायान् सम्प्रदायेभ्य इति च । सम्बन्धचिख्यासा तु नातीव युक्तेति षष्टी नोपपद्यते । ६७-न हि
पृष्ठम्:शब्दापशब्दविवेकः.djvu/३४०
दिखावट