पुंस्त्वमुक्तम्, करणादिघवन्तस्य नानालिङ्गतेति वल्लभः । ११३--मनाक्प्रियें वरमित्येव युक्तम् । तथा च कोषः-देवदीप्सितमात्रोर्वरं श्रेष्ठे पुनखिषु । सनागिठे भवेतीबमन्ये त्वाहुस्तदव्ययम्॥ ११४- केसनं ध्वजमस्त्रिया मिति ध्यजः स्त्री न । ध्वजो ध्वजं वेति वक्तव्यम् । ११५-अनर्थसाथै इत्येवोचितम् । सार्थशब्दः पुंसि नियतः । संघसाथौ तु जन्तुभिरित्यमरात् । मुख्यया वृत्या संबः सार्थश्च प्राणिसमूदमेबाचक्षते । तत्पुरुषश्च प्रकृत समासः। तत्पुरुषे संभवति व्यधिकरणबहुव्रीहिपरिप्रहस्यान्याय्यत्वात् । ११६–अक्षरशब्दो नपुंसकम्। वणं ब्रह्म मोझरचाक्षराणि। ११७-वगाउँ बाल्यादि चेतिं विमर्शः । द्वन्द्वः । बाल्याद् िइति च बहुत्रीहिः। बाल्यमादिं यस्येति तद्विप्रहः। परवचिह्न द्वन्द्वतत्पुरुषयोरिति द्वन्द्वं बाल्यादीत्युत्तरपदस्यं नपुंसकत्वात्खगबाल्यादिनोरिति सप्तमीद्विवचने रूपं साधु। ११८-स्यादां लवालमावालमावाप इत्यमर आलवालशब्दं क्लीबे पठतीत्यालवालमित्येव पठनीयम् । मेघमालेति टाबन्तं युक्तम् । मेघानां माला मेघमाला । सेवेत्यौपचारिकः प्रयोगः । ११९–आत्मघात इति तु न्याय्यम्। घात इति घबन्तः । १२०--चाटु शब्दः पुन्नपुसकयोरित्याभिधानिकाः । तथा च ऋतुसंहारे प्रयोगः-प्रियः प्रियायाः प्रकरोति चाटुम् इति । तेन प्रकृते ऽदोषः। १२१–मन इत्येवोचितं वक्तुम् । मन्यते बॅबि मानः । १२२ - उपकण्ठशब्दोऽव्ययमनव्ययं च । अव्ययत्वे तूपकण्ठमित्येक- वचनान्तं क्लीबमेव साधु स्यात् । प्रादिसमासे स्वनव्ययम्। तथाभूतः स पुन्नपुसफयोः । स्नुः प्रस्थः सानुरस्त्रियामिति त्रीणि पुन्नपुंसकलिङ्गानि । तस्मानकृते न कश्चिदोषः। १२३–दर्पणे मुकुरादर्शावित्यमरा देते त्रयं एव पुमांसः। १२४-ललाटमलिकं गोधिरिस्यमरालाटं नपुंसकम् । १२५-निकुरम्बं कदम्बकमित्यमरः। तेन दूरमुत्सारितानि दोषनिकुरम्ब णीति वक्तव्यम् । १२६–‘कोलाहलः कलकल इत्यमरः। १२७–अङ्क ऽभिनवोद्भिदीयमर्दकरः पुमान् । १२८–उभयमिति सामान्ये नपु सकम्। उभयं हृतम् । किं तदित्यहंसा देवी मम प्राणाश्चेति । १२९–सीमसीमे स्त्रियामुभे इतिं परा सीमेति वक्तव्यम् ।१३०-कौक्षेयको मण्डलम्रः करवालः
पृष्ठम्:शब्दापशब्दविवेकः.djvu/३३४
दिखावट