पृष्ठम्:शब्दापशब्दविवेकः.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६४ ]
शब्दापशब्दविवेके

इत्यमरः । तेन तूणीरः क निहित इति वक्तव्यम् । ६--समाश्रयशब्द एरच् इत्यजन्तः । घाजन्तश्चेति लिङ्गानुशासनात्पुंसि प्रयोगो युक्तः । समाश्रयो सीति चक्तव्यम् । ७–समित्याजिसमिद्युध इति स्त्रीलिङ्गो युच्छब्दः । । तेन अतीतायां महायुधीत्येवं वक्तव्यम्।८-सम्प्रहाराभिसम्पातकलिसंस्फोट संयुग इत्यमरे कलिः पुसि पठितः । तेन पुराणोऽयं कलिः। नैष शक्यः शमयितुमित्येवं विपरिणमनीयम् । ९–प्रन्थिर्ना पर्वपरुषी इत्यमराग्रन्थि शब्दः पुमान् । १०--नीवृज्जनपदौ देशे इति जनपदशब्देन सहोक्तौ नीवृच्छब्दः पुमान् । तेन धन्यधान्यसमृद्धे स्मिन्निति वक्तव्यम् । ११–द्वौ परौ द्वयोः। भुजबाहू प्रवेष्टो दोरित्यमराबाहुःस्त्रियामपि ।तेन सर्वमनवद्यम्। १२-इपुत्रहू स्त्रियां चेति लिङ्गानुशासनाद् इषुशब्दः स्त्रीपुसयोः। तेन इमा इति स्त्री लिङ्गनिर्देशो न दुष्यति। । छन्दसि च स्त्रीलिङ्गता विशेषतः प्रसिद्ध । तद्यथा-याश्च ते हस्त इषवः परा ता भगवो वप। ( यजुः १६९)। १३--अङ्गष्ठे सकनिष्ठे स्याद्वितस्तिद्दशाङ्गल इत्यमरा वितस्तिशब्दः पु सि नियंतः । तेन कियन्तो वितस्तय इत्येव साधु । १४-गिरां । भाजनं भाजनानीति चा वक्तव्यम् । पदमास्पदं भाजनमित्यादयोऽ- जहलिङ्गाः शब्दा वाड्मये प्रसिद्धाः। तेन लेखकप्रमाद एवायम्, न तु नाटककारस्य स्खलितम् । १५–आधारशब्दो घयन्तः। अवहारा धारावायानमुपसंख्यानम् इत्यौपसंख्यानिकोऽत्र घब. घपबन्त इति लिङ्गानुशासनदयं पु'सि नियतः। तेनाधारेत्यपशब्दः। १६-सारो बले स्थिरांशे च न्याय्ये क्लीबं च त्रिवित्रत्यमरान्न्याय्येनैं सारशब्दो नपु सकम् । तेन नेदं सारमिति ब्रूयात् । १७--केयूरमङ्गदं तुल्ये इत्यमरात्केयूरशब्दो नपुगेकम् । तथौ च पाठान्तरम्-केयूराणि न भूषयन्ति पुरुषमिति। १८ -सम्मानशब्दो मन्यतेचेंचि व्युत्पद्यते । तेन सम्मान इत्येव साधु । १९–दुःखाश्रय इति पु'स्येकत्वे च साधु । उक्तोऽत्र हेतुः पूर्वत्र। २०-पुंनपुंसकयोः शेषोऽर्धर्चपिण्याककण्टका इत्यमर- प्रमण्याकण्टकमित्यपि साधु । पु'सि तु प्रायिकः प्रयोगः । २१–प्रकृत आम्रफलमभिप्रेतमित्यास्राणीति वक्तव्यम्। फले तुक् ( ४।३।१६३ )