पृष्ठम्:शब्दापशब्दविवेकः.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६२ ]
प्राङ्गदापशदृग्वेिके

वर्लम इत्येव साधु। २४-द्वित्रिभ्यां ष मूनी इति घप्रत्यये टिलोपे खरदूषणत्रिमूर्धा इति भवितव्यम् । द्वित्रिभ्यां पाद्दन्मूर्धसु इति स्वरसूत्रे सूर्धसु इति निर्देशात्समासान्तोऽनित्यः । अन्यथा प्रक्रमभेदाय मूर्धेष्वित्येव वदेत् । २५–नित्यमसिच् प्रजामेधयोरित्यभिच् समासान्तो नञ्दुःपूर्वा देव मेधाशब्दाद्भवतेि नन्यवत्, तेन संधारणमेघसमिति प्रामादिकम्। अस्वरितत्वादेब अन्यतरस्यांग्रहणाननुवृत्तिसिद्धौ नित्यग्रहणमन्यतो विधा नार्थम् । तेनाल्पमेधस इति सिध्यति वृत्तिकारः। तथा च भारते प्रयोगः श्रोत्रियस्येव ते राजन्मन्दकस्याल्पमेधसः । अनुबहकता बुद्धिर्नुधा तत्त्वार्थ दर्शिनी ( वन० ६५१९)। साधारणमेधमाम् इत्यस्य साधुत्वे तु शिष्टा नुग्रहो नास्तीति नेदं साधुत्वमवगाहते । २६-बहुत्रीहौ समास एव बुदादिभ्यो गन्धस्येकारोऽन्तावयवो विधीयते, न तु तत्पुरुषे । तेन प्रकृते पूतिगन्ध इत्येव साधु । पूतिश्चासौ गन्धश्चेति विग्रहः । २७--गन्धस्येदुत्पूतीत्यादिसूत्रे शोभनशब्दस्यादर्शनात्ततः परस्य गन्धस्येकारोऽन्तावयवो न शक्नोति भवितुम् । तेन शोभनगन्धे- नेत्येव प्रयोगार्हम् । २८–निश्चितं श्रेयो निःश्रेयसम् । इदं च अचतुरविचतुरेत्यादिनाच्प्रत्ययान्तं निपातितम् । तेन सप्तम्यां निः- भयसे इति स्यात् । २९–अचतुरविचतुरेत्यादिना सूत्रेण पुरुषायुष मित्यजन्तं निपातितम्, तेन पुरुषायुरित्यसाध्वेव। ३०-न पूजनात् इति समासान्तनिषेधे ‘सुपथा? इति तृतीयान्तं स्यात्। ३१-ऽचतुर् विचतुरेत्यादिना रात्रिन्दिवमित्यच्समासान्तं निपातितम् । तेन रात्रि न्दिवेति प्रमादः । ३२–अदन्तोपि दिवशब्दोस्ति दिवौकस दर्शनात् । तेन षष्ठ्यन्तेन सह पारेमध्ये षष्ठ्या वेति समासः नाव्ययीभावादतोर्व प्रचम्य। इति सुपोऽमादेशे मध्येद्विमिति साधु । ३३-—समेधितमेधा इत्येव । असिचोऽप्रसङ्गात् । ३४–आगामिवर्तमाने अहनी यस्याष्ट प्रहरस्येति बहुत्रीहिः। तेन तत्पुरुषस्य राजाहः सखिभ्यष्टच् इति विधीय सानष्टसमासान्तो नेह प्रसज्यते । ३५–बरतनु इत्यत्र यदि नदीसंज्ञक स्तनूशब्दः । अन्वर्थनद्योर्हस्व इति ह्रस्वः । नद्यतश्चेति कप् च प्राप्तोति।