पृष्ठम्:शब्दापशब्दविवेकः.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २६१
समासान्तधकारः

स्वाङ्ग इति स्वङ्गादन्यत्र नद्युतश्चेति विहितः कब्दुर्वारः। तेनतन्त्रीका वीणेति पाणिनीयाः९मुपंथी नगरीत्यत्र इनः स्रियामिति (व इतः कज्दुर्वारः। न पूजनादिति निषेधः स्यादिति मा स्म शयिष्ठाः, षचः प्राचीनानामेव स निषेधः। कप् प्रत्ययश्चायं तदुत्तरः। तस्मारसमसान्त विधेरनित्यत्वादिति कथंचित्समधेयम् । १०–अचतुरविचतुरसुचतुरेत्या दिनाऽचतुरादयोऽजन्ता निपात्यन्ते । तेन ऋक्सामे इयेव साधु । ११–किमः क्षेप इति समासान्तनिषेधात्किगौरिति साधु । कुत्सितो गौः किंगौः। संश्चासौ गौश्चेति सद्गवः। गोरतद्धितलुकीति टच् । १२-सम|- सान्ताप्रसङ्गादड्मूर्धा इति वक्तव्यम् । द्वित्रिभ्यां परस्य मूर्तेः षविधिः । १३-प्रकटितानेकपरिपाटीकानां नटीनर्तकानामित्येवं न्यासो निर्देषः । नद्युतश्चेति कप् । निष्ठेति बहुत्रीहौ निष्ठान्तस्य पूर्वनिपातः । १४-राजाहः सखिभ्यष्टच् इति टचि कतिपयाहवास इत्येव न्याय्यम्। कतिपयाहान् बास ? इति कतिपय इवास इत्यत्यन्तसंयोगे चेति द्वितीयासमासः। १५–शोभना माधुरी यस्याः सा सुमधुरीका । नद्यश्चेति कप् । १६-अवसमन्धेभ्य स्तमस इत्यन्धतमसमिति तु युक्तम् । १७–शोभना गन्धा(द्रव्याणि)अत्रेति सुगन्ध ( आपणः )। गन्धस्येदुत्पूतिसुसुरभिभूय इतीत्वं तु गन्धस्यैकान्तत्व एव भवति । एकान्त एकदेश इव अविभागेन लक्ष्यमाण इत्यर्थ इति श्री दीक्षितः । तेन सुगन्धि पुष्पं सलिलं च। सुगन्धिर्वायुः। १८–पथिप्रदर्शक इत्येव साधु । ऋक्पूरब्धूपथामेित्यः समासान्तः समसस्यान्तावयवो विधीयते पूर्वपदस्य पथिन्शब्दस्य तु न। १९–पत्र वा षड्वेति पञ्चषाः । तान् पञ्चषान्। संख्ययाव्ययासन्नेत्यादिना समासः । बहुव्रीहौ संख्येये डज़बहुगणात् इति खचि पञ्चषा इति रूपं निष्पद्यते । २०वा च मनश्चेति वाङ्मनसे तयोः वाङ्मनसयोः। अचतुरविचतुरेत्यादिनाऽजन्तत्व- निपतनात् । २१--भ्रातृत्वमल्पमत्रेति भ्रातृगन्धिः । अल्पाख्यायामितीकारः समासान्तः स्यादिति पाणिनीयः । २२–अहश्च रात्रिश्चेत्यहोरत्रः । अहः सर्वेकदेशेत्यादिनाच्समासान्तेन भाव्यम् । रात्राह्नाहाः पुसीति समाल हारद्वन्द्वस्यापि पुस्त्वम् । २३–अन्तर्बहिभ्यं च लोम्न इत्यपि समासान्ते