पृष्ठम्:शब्दापशब्दविवेकः.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६० ]
शब्दापशब्दविवेके

णस्य पूर्वनिपातात् । मयूरव्यंसकादित्वाद्वा समाधेयम्। चरणावेव शरण मिति चरणशरणम्। तथाप्यसमर्थसमासोऽयं भवति । चरणाथ हि युष्म- दर्थेनाभिसम्बद्ध इति सापेक्षः । गत्यन्तरं च नास्तीति चरणौ शरणमित्येव भृयात् । १९--संस्कृतेऽधीतिनामित्येव साधु। अधीतमेभिरित्यधीतिनः । तस्येन्विषयस्य कर्मण्युपसंख्यानमिति संस्कृते इत्यत्र सप्तमी । तस्याः समासो दुर्लभ ऋते योगविभागात्। स चागतिकगतिरित्यसकृदवोचाम । २०–अज्ञानमे घेनावृते वेदभानावित्येवं व्यासेन वक्तव्यम्। यथास्थिते तु समासार्थं न परिस्फुटः। अज्ञानमेघावृतत्वं विधातुमिच्छामः। विधेयं च न समस्यते । विशेषणत्वे पुनर्भावलक्षणसप्तमीस्वं न प्रतीतिमेति । २१-बदनं कलुषं चकारेत्येवं विग्रहेण वक्तव्यम् । कलुषमिति विधेयम्। समानाधिकरणसमासे तु कालुष्यविशिष्टं पितुर्वेदनमिति पुत्त्रेण तत्र किं चक्रे। २२–यो विप्रोऽभिवादितः (सन् ) इत्येवं वक्तव्यम् । उक्तोऽस- क्रुद्धेतुः । २३दिसंख्ये संज्ञायामिति नियमेन संज्ञायामेय संख्या समानाधिकरणेन सुबन्तेन समस्यते । तेन सप्तविंशत्या मौक्तिकैरिति व्यासोक्तिः साध्वी।

_____

समासान्ताधिकारो द्वादशः ।

१–‘उरः प्रभृतिभ्यः कप्' इति नित्ये कपि समासान्ते व्यूढोरस्क इत्येव साधु । २–शोभन राजाऽत्रेति सुराजानः । राजाहः सखिभ्यष्टच् इति तु तत्पुरुषसमास एव विधिः। ३—किमः क्षेपे इति समासान्तनिषेधात् किंसखायमिति साधु । कुत्सितः सखा किंसखा। ४-गोरतद्धितलुकीति दचि नवप्रसूतगव्य इत्येव सधु। ५-अर्थान्नत्र इति गणसूत्रेण कपि समासान्तेऽनर्थक इत्येव भवति । अनर्थ इति तु तत्पुरुषेऽनबद्यम् । ६–सुप्रातसुश्चसुदिवेस्यादिना सुप्रातसेितेि बहुत्रीहौ निपातितम् । तेन तत्पुरुषे दुःसमाधानम्। ७-अहः सर्वेकदेशेत्यादिसूत्रे संख्याव्ययादेरित्यनु वर्तते, तेनाच्समासान्त इति दिवारात्रमित्यदुष्टम्। ८-नाडीतन्त्र्योः