पृष्ठम्:शब्दापशब्दविवेकः.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २५६
संयासस्यधिकाः

प्रत्येकं स्त्रीपु साभ्यामभिसम्बध्यते । तेनार्थासङ्गतिः स्फुटा। पंतिश्च पत्नी चेति पतिपत्न्यौ । प्रमीते पतिपत्न्यौ ययोः तौ प्रमीतपतिपत्नीकौ । नहि स्त्री प्रमीतपतिपत्नीका भवति न वा पुमान् प्रमीतपतिपत्नीको भवतीत्यै भयत्र विशेषणानुपपत्तिः। तेन प्रमीतपतिका स्त्र प्रमीतपत्नीकश्च पुमान् इत्येवं व्यासेन वक्तव्यम् । ९–यस्याभिमुखमिति पृथक्पदत्वेन वक्तव्यम् । नहि तदीयमित्येतद्गतस्तच्छब्दः समासेन्तर्गतं यच्छब्दं परामृशेत् । सर्वनाम्नां प्रधानपरामर्शित्वात् । १०–खल्वाटो निर्धन इत्येवं वाक्य विंन्यासः कार्यः । निर्धन इति विधेयम् । ११ -लब्धप्रचाराणि मंतानी त्येवं पृथक्त्वेन प्रयोज्यम् । १२-यावदाभूतसंप्लवमित्यस्य स्थाने याच भूतसम्प्लवमेितेि आभूतसंप्लवमितेि वा वक्तव्यम् । आङाऽऽव्ययीभावें यावता नार्थःसति च यावति समासेन नर्थः। १३–प्राचीनायां नवीनायाश्च परिपाट्या इति विग्रहेणोक्ते प्रचीननयीनयोः प्राधान्यं परिस्फुरति । तदेव चाभिप्रैति वक्तां । १४–दिक्संख्ये संज्ञायम् इति संख्यावचनस्य समानाधिकरणेन सुबन्तेन संज्ञायमेव समसो विधीयते। तेनान्यत्र समासोऽवैधः। तस्माच्छतेन पुरुपैरिति वक्तव्यम् । १५–वास- ल्यातिशयलालिताङ्गयष्टिकस्य तनयस्य यमसदनस्यातिथीभवने इत्येवं वक्तव्यम् । विशेषणं हि परार्थत्वादुपकारकं गौणं भवति । समासे चोत्तर- पदेन संसष्ठं सन्नितरां तथेति केवलं वाक्ये पृथक् झयमाणं किञ्चिदपरतन्त्र भवतीति तथा प्रयोग एषणीयः। अतिथीभवन इत्यत्रभूततद्भावे च्विरपेक्ष्यत इति स उच्चारितः । १६–परचक्षुषोर्गुलिनिक्षेप इत्येवं वाक्यं निर्मेयम् । सप्तमीसमासस्य दौर्लभ्यात् । सप्तमीति योगविभागात्समास इति तु शिष्टप्रयोगसमर्थनायागतिकस्य गतिः । १७-–एकदिनपूर्वमिति सर्वथा दुर्घटोऽयं समासः। एकदिनं पूर्वं यस्मिन्कर्मणि तद्यथा तथेति विग्रहे तु नाथं विवक्षितः स्फुटति । यत्सत्यं प्रचरङ्कषाच्छयैषा भवति, न तु संस्कृतम् । संस्कृतेऽयमर्थो भङ्ग्यन्तरेणोच्यते । तत्र एकाहे, अस्मत्पूर्व- स्मिन्दिने इति वा भङ्ग्यन्तरम् । १८–अहं ते चरणौ शरणमपन्न इत्येवं के व्यसेनं बँक्तव्यम् । कर्मधारयसमासे तु शरणचरणचितिं स्यात् । बिशेष