पृष्ठम्:शब्दापशब्दविवेकः.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
[ २५७
समासोक्स्यधिकारः

समासान्ते टिलोपे च निस्त्रिंशानीति साधु । संख्ययाऽव्ययासन्नद्राधिक- संख्याः संख्येये इत्यनेन समासे बहुत्रीहौ संख्येये डज़बहुगणादिति डचि ति विंशतेर्डिति इति तिशब्दस्य लोपे उपविंशानीति साधु । विंशतेः समीपे यानि वर्तन्ते तानि उपविंशानि । ३७-वयसाऽधिकपञ्चविंशा इति न्यासो युक्तः । अधिकाः पञ्चविंशतेः ( वर्षेभ्यः ) इति विग्रहः । अथवाऽधिकपञ्चविंशवर्षी इत्येवं न्यसनीयम् । ३८–महामहतीमित्यस्य स्थाने महत्या महतीमिय्येव निर्गुष्ट' बचः। सामानाधिकरण्यविरहाद् आन्महत इति विधेरप्रसङ्गः । ३९-स्थाने स्थाने इति वक्तव्यम् । यीप्सायां च समासविधायकं नेति व्यासेनैव स्थेयम् । प्रकारे गुणवचन स्येति गुणवचनस्य प्रकारेणै द्विरुक्तेः प्रकृते गुणवचनाभावात् प्रकारार्थत्वा भावाच्च वीप्सायामेव द्विरुक्तिः । तेन कर्मधारयवदुत्तरेष्विति विधे- रम्यप्रसङ्गः। ४०--यथेष्टानित्यपशब्दः, यथेष्टामिति च । यथाऽसादृश्य इत्यनेनाव्ययीभावे यथेष्टमित्येव साधु । ४१- उदकस्योदभावोऽन्न दुर्लभ इत्युदकशून्यत्वादिति वक्तव्यम् । ४२–जाया च पतिश्चेति दम्पती। जायाश्च पतयश्चेति दम्पतयः । तेषां दम्पतीनां घरीं इति दम्पतिवर्गः। अत्र पतिशब्द उत्तरपदे दीघ्र दुर्लभ इति न परोक्ष प्रेक्षावताम् । ४३-ध्यापिताशेषरात्रेमें इति वक्तव्यम् । अत्राच्समासान्तस्य दौर्लभ्या यापिताशेषरात्रस्येत्येतत् स्खलनमेवेति वृद्धाः ।

_____

समासोक्त्यधिकारो दशमः ।

१-नान्यपीडनमित्यत्र नशब्दः प्रसज्यप्रतिषेधे नेष्यते, वाक्यभे प्रसङ्गात् । तेन पर्युदासेर्थे वर्तमानस्य तस्य समासेऽनन्यपीडनमिति भवितव्यम् । २–शास्त्राण्यनभ्यस्यत इत्येव निर्देष्टो न्यासः । यथा स्थितम् असमासे तु नव्यो जायत इति क्रियया योगः स्याद् विवक्षितं च विपरीयात्। ३-आसन्नपचानि वर्षसहस्राणीति न्यास एव शोभनः । समासोक्तिवैरम्। ४-नञ्समासेनाऽधारयित्वेति तु युज्यते । अन्यथा