पृष्ठम्:शब्दापशब्दविवेकः.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५६ ]
शब्दापशब्दविवेके

दुर्वारत्वान्तेष्विति वक्तव्यम् । । ताश्च तानि चेति तानि, तेषु । २०-महल्लज्जास्पदम् इत्यत्र लज्जा महत्त्वेन विशिष्यते, नास्पदम् । तेन समास एवायम्। समासे च आन्महत इति विधिर्दूर्वारः । तेन महलज्जा- स्पदमित्येव साधु। २१–हृते चेति वार्तिकेनादस आत्वे सवर्णदीर्थे चामूढ इत्यवदातम् । २२–संख्याचिसायपूर्वस्याह्नस्याहनन्यतरस्यां भविति सायाह्नि सायाहनि, सायाह इति त्ररूप्यं भवति । २३–‘श्वंशूरः श्वघ्या' इत्येकशेषे श्वशुरवित्येव वक्तव्यम् । २४–रामकान्तेत्यादि स्तत्पुरुषः । प्रतिबिम्बवचनः प्रतीकशब्दो नपुसकम् । तस्माद्रामककान्ता- प्रतीकमित्येव निदरं स्यात् । २५ - महदर्थस्य गौणत्वाद् आन्महत इत्यावं न । तेन महद्भूत इति साधु। २६ –एवेत्यादि चरकवचनम् । प्राण्यङ्गत्वादेकवद्भावे प्राप्त नासिकास्तनयोधर्माधेटोरिति निर्देशादनित्यता ज्ञापनाद् यथास्थितं साधु । २७-अल्पाच्तरस्य पूर्वनिपाते प्राप्त लक्षण हेत्वोः क्रियाया इत्यनित्यत्वज्ञापनाद् गर्भधरणपोषाभ्यामित्यपि साधु। २८-मध्यन्दिनमित्येकदेशि समासः । मध्यं दिनस्येति मध्यन्दिनम् । सर्वोप्येकदेशः कालेन समस्यते। संख्यचिसायेति ज्ञापकस्य सामन्यापेक्ष त्वात् । पूर्वपदस्य मन्तवं पृषोदरादित्वात् । २९--द्वौ पक्षौ परौ यत्र सः द्वापरः। पृषोदरादित्वादात्वम्। ३०. –देवासुराणां कादाचिको विरोध इति येषां च विरोधः शाश्वतिक इत्यनेनैकवद्भावो नेति सर्वं सुस्थम् ।३१-मन्दं मन्दमिति प्रकारे गुणवचनस्येति द्विरुक्तिः । कर्मधारयबदुत्तरेष्विति सुब्लुकि मन्दमन्दमिति स्यात् । अत्र कथंचिद्वीप्सायामेच द्विरुक्ति- निर्वाहेति मल्लिनाथः । मन्दं मन्दमित्यत्राप्रकारार्थं द्विर्भाव इति च काव्यालङ्कारसूत्रवृत्तौ वामनः। ३२-अर्थे विभाषेति विभाषा दुगागमेऽ म्यदर्थमन्यार्थमिति चोभयं साधु। ३३-अषष्ठग्रतृतीयास्थस्यान्यस्य दुर् इत्यादिना दुगागमेऽन्यदाशिषमिति ब्रूयात् । अन्याऽऽशीः, अन्यदाशीः ताम्। ३४-ईषदर्थे इति कोः कादेशे साधु। ३५–ज्योतिर्जनपदरात्रि नाभिनामगोत्रेत्यादिना समानस्य सभावे सगोत्र इत्येव साधु । ३६-निर्गतानि त्रिंशत इति निर्विंशानि । संख्यायास्तपुरुषस्येति वाचि