पृष्ठम्:शब्दापशब्दविवेकः.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २५५
समासाश्रयविधिपरिशेषाधिकारः

स च ऋकारान्स न । तेनानङः प्रसङ्ग न । १--द्यष्टनः संख्यायाम बहुत्रीह्यशीत्योरिति आनेत्रे ऽष्टात्रिंशतमित्येव साधु। ६-गवि च युक्त इति वक्तव्यादष्टन आवेऽष्टागवेनेति वक्तव्यम् । ७--प्रस्कण्वहरिश्चन्द्रा वृषी इत्युषावभिधेये सुडागमो निपातितः। तेनानृषौ तु हरिचन्द्र इत्येव साधु । ८–प्रकृत्याशिषीप्यत्र अगोवत्सहतेष्वित्युक्तम् । तेन सवत्साय सहलायेत्यत्र प्रकृतिभावो नावश्यकः । चोपसर्जनस्येति पाक्षिकः सहस्य सादेशः । €-सहपुत्त्रापि विद्यम।नपुत्त्रापीत्यर्थः । भारवहने पुत्राणां । गर्दभ्या सह तुल्य योगो न । तेन 'तेन सहेति तुल्ययोगे’ इत्यनेन समास न, अपि तु अनेकमन्यपदार्थे इत्यनेन । वोपसर्जनस्येत्यतुल्ययोगेपि | विकल्पेन सहस्य सः । सहपुत्रा सपुत्त्रेति रूपद्वयम् । १०-ईषदर्थे (६।३।१०५) इति कोः कादेशः। तेन कामधुरं कालवणमित्युभयं साधु । ११-आमहतः समानाधिकरणजातीययोरित्यात्वे महाबलेनेति वक्तव्यम् । १२-उक्षशब्द इत्येव साधु। सुलुकि सर्वनामस्थानं परं नास्तीत्युपधा- । दीर्घस्याप्रसक्तिः। १३-प्रत्येकमित्येव साधु । एकमेकं प्रतीति प्रत्येकम् । वीप्सायमव्ययीभावः। नाव्ययीभावादतोऽन्त्यपद्मस्या इति सुप अमा देशे प्रत्येकमिति रूपम् = १४–प्रतिगः कशां प्रतिकशः प्रादिः समासः । प्रतिकशोऽश्वो यः कशां न गणयति । ‘प्रतिष्कशश्च कशेः इति शास्त्रेण, प्रतिष्कश इति प्रतिपूर्वस्य कशेः पचाद्यजन्तस्य सुट् निपास्यते षत्वं च । प्रतिष्कशः पुरोयायी सहायो चोच्यते । तथा च श्रीरामायणे प्रयोगः यं मे भव प्रतिष्कश इति । १५–कोः कत्तत्पुरुषेऽचीति तत्पुरुषेऽयं ; विधिः। प्रकृते च बहुत्रीहिः। तेन दुर्लभोत्र कदादेशः । कुत्सिताचारा इत्येव वक्तव्यम्। १६-दिवो द्यावेति सूत्रेण देवताद्वन्द्वे ‘द्यावा’ इत्या देशो विधीयते । तेन नात्र कश्चिद् दोषः । १७–तित्र ऋचो यस्मिंस्त तृचम् । ऋचि चेरुत्तरपदादिलोपरछन्दसीति वक्तव्या त्रेः सम्प्रसारण क्षुत्तरपदादिलोपश्च। अयं च च्छन्दसि विधिरिति लोके ड्यूचमित्यपि साधु। १८. -लुम्पेदवश्यमः कृत्ये इत्यस्याप्राप्त खश्यमवंश्यमित्येत्र साधु ।। १६=नपुसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्. इत्येकशेषस्य