सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २५३
पूर्वपदह्रस्वदीर्माधिकारः

वैश्याराजन्याविस्रास्वित्येवं साधूक्त' स्यादिति पाणिनीयाः । १०-तामसी, बुद्धिरस्येति बहुत्रीहिः । वृद्धिनिमित्तस्य चेति गुंबद्भावप्रतिषेधः । ११-कर्णत्वमिति तु युज्यते । कृदन्तस्यगुणवचनत्वादियुक्तमधस्तात् । १२–परकाष्ठामित्येव साधु । परां काष्ठामिति वा । १३--पुंवत्कर्मधार येत्यादिना पुंवद्भावे व्यवस्थापकसभया इत्येव साधु । १४-सरसरस- वत्सुरसरस्वतीत्यावेव निर्मीयं पुचद्भावस्य दुर्वारत्वात् । १५–पविद्यात्व- मित्येव । आवश्यकः पुबङ्गाचः। १६-दैवसम्पत्सम्पादन इत्येवं न्यस- नीयम्। पु'बद्भावस्य दुष्परिहरत्वात् । देव्याः सम्पदः सम्पादन इति व्यासेन वा वक्तव्यम् ।

_____

पूर्वपदहवदीर्घधिकारः सप्तमः।

१–खित्यनव्ययस्येति पूर्वपदह्रस्वत्वे नारिंमन्य इत्येव साधु । २–ङयापोः संज्ञाच्छन्दसोर्बहुलमिति संज्ञ।या गङ्गया हस्वत्वे गङ्गदत्त ! इति साधु । बहुलग्रहणात्क्वचिद् गङ्गदत्त इत्यपि। ३-घरूप कः पेत्य दिना ङयन्तस्यानेकाचो ब्राह्मणीशब्दस्य ह्रस्य ब्राह्मणस्रवेत्येव शब्दः ४–ङयापोः संज्ञ ति स्वत्वे वैदेहि बन्धोरिति साधु । ५-नहिवृतिवृषि व्यधीत्यादिनापूर्वपदस्य दीर्घत्वे मर्माविध इत्येव साधु। ६-मित्रे चट्ट वित्यूषावभिधेये विश्वशब्दस्य पूर्वीपस्य दीर्घा भवति । अयं तु कश्चि माणवकोऽनृषिः, तेन विश्वमित्र इत्येव साधु । ७-इकः काशे इत्यनेन दीर्थे प्रतीकाश इति साधुः । ८–अन्येषामपे दृश्यत इति शस्त्राशस्त्रि, सुष्टीमुष्टि, बाहूबाहवि इति रूपाणि साधूनि । तत्र बाह्रबाहवीत्यत्र इच् } कर्मव्यतिहारे इति इचि सत्योर्गुण इति गुणे बाहूबाहवि’ इति शुद्ध रूपम् । ९-परीमणमित्यत्र ल्युडन्ते शब्दे पूर्वपदस्योपसर्गस्य दीर्घा दुर्लभः । १०--उपसर्गे घड्यमनुष्ये बहुलमित्युपसर्गस्य दीर्घत्वे प्रती इर इति साधु। क्वचित प्रतिहार इत्यपि, बहुलग्रहणात् ।

_____