पृष्ठम्:शब्दापशब्दविवेकः.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५२ ]
शब्दापशब्दविवेके

पूर्वनिपातौचित्यात् । भसितोपलक्षितं भसितोपलिप्तं वा शरीरं येषां ते भसितशरीरा इत्येवं मध्यमपदलोपसमासाश्रयणे तु न दोषः । ८–निष्ठेति बहुत्रीहौ निष्ठायाः पूवनिपातविधानात् परिचितस्वलाभहानय इत्येवं न्यासः कार्यः । ९-'कालाः परिमणिना।' इत्येकं वर्जयित्वा दुर्लभ- त्रिपदस्तत्पुरुष इति कठिनस्य स्वपरिश्रमस्य, कठिनस्य स्वस्य परिश्रम स्येति वा वक्तव्यम् ।

_____

पु'बद्भवधिकारः षष्ठः ।

१-स्त्रियाः पुंवद्भाषितपुंस्कोदिति पुंवद्भावे प्रथमपरीक्षामिति साधु । २-तृतीया प्रकृतिः षण्डः क्लीचः षण्डो नपुंसकमित्यमरे पाठः। मूलेs. समासोक्तिः । समासे तु तृतीयप्रकृतिरित्येवेति भानुजिदीक्षितः । न कोप धाया इति नेति योगविभागान्न पुंवद्भत्र इति केचित् । क्षीरस्वाम्यपि मूलेऽसमासं मन्यते यदाह-स्त्रीपुंसाभ्यां तृतीया प्रकृतिः। लिङ्गान्तर त्वादिति । ३–भक्तिशब्दस्य प्रियादिषु पाठात्पूर्वपदस्य पुबद्राबो दुर्घटः। तेन दृढाभक्तिरित्येव साधु । अथवा दृढमिति सामान्योपक्रमा- न्नपुसकम्। तस्य भक्तिशब्देन समासे इढभक्तिरिति साधु । ४–श्रत्र स्त्रियाः पुंवद् इत्यनेनैव पुंवद्भावे दर्शनीयमःनिनीयेय साधु । ५–आक- डारसूत्रभाष्ये संज्ञाकृदन्ततद्धितान्तसमस्तसर्वनामसंख्यातिरिक्तः शब्दो गुणवचनशब्देनोक्तः । तेन न|त्र कश्चिदोषः । द्वारत्रतीति तद्धितान्तम् । तद्धितान्तस्यागुणवचनत्वात् । ६–अन्यस्यां मनोऽस्येत्यन्यमनाः । सर्व नाम्नो वृत्तिमात्र पु'बद्भाव इति दाबन्तस्यान्याशब्दस्य पुबद्भावः । ७-वृद्धिनिमित्तस्य च तद्धितस्या रक्तविकारे इति पुंवद्भावप्रतिषेधस्य पुत्रत्कर्मधारयजातीयदेशीयेष्विति प्रतिषेधाद् ऐश्वरीसृष्टैरिति दुष्टम् । मुंबद्भावे सति ऐश्वरसृष्टैरिति भाव्यम् । ऐश्वर्याः सृष्टरित्यसमासोक्तिस्तु भव्या। ८–प्राचीदिश इत्यत्र पुंवत्कर्मधारयेत्यादिना पुंवत्वं दुर्वारम्। तेन प्राग्दिश इत्येव साधु। ९--द्वन्द्वेन क्वचिपुंबद्भावः शिष्टः शास्त्रेणेति