पृष्ठम्:शब्दापशब्दविवेकः.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५० ]
शब्दपशब्दविवेके

वर्तते, शतानीति हि तत्र विशेष्यम् । तच्च स्वयं संख्येये वर्तते नाम| ४२–अपरिच्छेत्तुमसाध्ययशस इत्यपार्थकः शब्दसन्दोहः । असङ्गतेः । अपरिच्छेत्तुमित्यत्र नञा नार्थः। असाध्ययशस इत्यसमर्थ समासः । अपरिच्छेद्ययशस इत्येव निर्देष्टो न्यासः। ४३--बृहद्बिल्वफ़ले नेति व्यवहारानुगो न्यासः । पूर्वं सम्बन्धाख्याकः षष्ठीसमासः पश्चाद् विशेषणसमास इत्येष क्रम इत्यसकृदुक्तम् । ४४–कर्मणि चेत्युभयप्राप्तौ या कर्मणि षष्ठी सा न समस्यत इति सुरायाः पानमित्येव साधु । केचिद-

विशेषेण विभाषामिच्छन्तीति वचनान्मर्कटस्येति षष्ठी साध्वी । तस्य वृश्चिकेन दंशनमित्यसमास एव वरम् । ४५-उत्तरपदार्थप्रधानो हि नञ्समासः । एकत्वबुद्यया भ्रम इत्यतोऽयमेकशब्द एकस्मिन्नित्येकवचन मेव युज्यते । ज्ञापकं च-अनेकमन्यपदार्थे इति । तथा च माघः-- करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रश इति । रक्षितस्त्वाह--अध्यारो पितबहुत्वाद् बहुवचनम् । यथा द्युद्भ्यो लु्ङि वृद्भ्यः स्यसनोरिति । अनेकश्चानेकश्चानेकश्चेत्यनेके इत्येकशेषाद्वेति शब्दकौस्तुभे स्थितम् । ४६-शतात्परा इति परश्शताः । पञ्चमीति योगविभागात्समासः। पार- स्करात्वाित्सुट्। लोकाश्रयत्वाल्लिङ्गस्येति न परवल्लिङ्गता । स्त्रियाः पुंवद् इति योगविभागात्परशब्दे पुंवत्वम्। ४७–विंशतेर्वर्षेभ्य इत्येवं व्यासेन वक्तव्यंम्। उक्तोत्र हेतुः। ४९-नक्तमित्यधिकरणवृत्ति । तेन नक्तन्दिनमिति द्वन्द्वो नोपपद्यते । एवमेव दिवानिशमिति समासोप्यनु पपन्नः। नक्तन्दिवमिति तु सlधु । अचतुरविचतुरेत्यादिना निपातनात् । अहोरात्रमिति वा वक्तव्यम् । ४९-तुलाधिरूढमित्यसमर्थसमासः । तुलामधिरूढमित्येव शोभनम् । ५०. -अनद्यतनभूतकतिचिल्लकारैरिति दुःश्लिष्ट पदकदम्बकम् । चिच्छब्दस्तावन्न क्वचिदपि समासमनुप्रवि शन्दृष्टः । अनद्यतनभूताद्यर्थ कतिभिश्चिल्लकारैरिति वक्तव्यम् । ५१-सर्वदार्थमित्यपशब्दः । सर्वदेति तद्धितश्चासर्वविभक्तिरित्यव्ययम् अधिकरणवृत्ति । सर्वस्मिन्काल इति च तदर्थः । तस्यार्थशब्देन समासोऽनु पपन्नः। सर्वदार्थमित्यपास्य सर्वकालमिति वक्तव्यम् । ५२-नामग्राह्-