पृष्ठम्:शब्दापशब्दविवेकः.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २४९
दुर्घटसमर्थसमासाधिकारः

न्यूनानि इति च वक्तव्यं तस्यार्थस्य प्राधान्यख्यापनाय । ३४–न हि विशेषणानां परस्परं विशेषणविशेष्यभावोऽस्ति । न ह्यपाधेरुपाधिरस्ति विशेषणस्य वा विशेषणमिति भाष्योक्तेः । तस्मादयं महान विद्वान् इति विशेषणद्वयमेकमेयार्थमिदंलक्षणं विशिनष्टि । अयं चिद्वानस्ति महांश्च कुलेन वा धनेन वा चिद्याधिगमेन वेत्यर्थः । महदस्य बैदुष्यमित्यर्था न । महाविद्वान् इति समासार्थस्तु महद् विद्वत्त्वमस्येति संभवति । तत्र विद्वानिति भावप्रधानो निर्देशः । एकतरस्य विशेषणस्य विशेष्यत्वकल्पन- याऽयं विशेषणयोः सम(नाधिकरणस्तत्पुरुषो वा द्रष्टव्यः। अपि वा मह द्यथा स्यात्तथा विद्वान् इति विग्रहे महच्छब्दः क्रियाविशेषणम्। सुप्सुपा समासः । ३५-चतुञ्चचत्वारिंशत्सहस्राणि च लक्षे च लोका इत्येवं व्यासेन युक्तव्यम् । ३६-वल्कलं परिधानमिति व्यस्तरूपकेण वाच्यम् । यथा - तृणानि शय्यात्वेन रूप्यन्ते’ तथा वल्कलं परिधानत्वेनेति वल्कलं विशेष्यं प्रधानम् इति तस्य तृणानीतिवत्पूर्वं प्रयोग उचितः । ३७–आमरणान्त मित्येवाव्ययीभावे साधु । समासान्तरं चेह न शक्यं समाश्रयितुम् । ३८-पत्त्रत्रितयं पलाशे इत्येवं वक्तव्यम् । पत्त्राणां त्रितयमिति पत्रत्रितय मिति षष्ठीसमासः। न चायं बहुत्रीहिः, पत्त्राणां त्रितयं यत्रास्ति स इति; व्यधिकरणत्वान् । अनेकमन्यपदर्थे इत्यनेकमिति प्रथमन्तम् । तेन प्रथमा न्तानामेव बहुत्रीहिः । ३९–प्राण्यङ्गवचन्चुचरणैरिति द्वन्द्व निर्देशो न युक्तः । चञ्चुचरणेनेत्येकवद्भावेन वक्तव्यम्। अवश्यं समाधेयमिति चेत् चञ्चु सहिताश्चरणाः चञ्चुचरण इति मध्यमपदलोपिसमास आश्रेयः। ४०–श्राबालवृद्धे लोका इत्येवं वक्तव्यम् । बालाश्च वृद्धाश्चेति बालवृद्धाः । तानभिव्याप्य यथा स्यात्तथेत्यर्थः । आङ मर्यादाभिविध्योरित्यव्ययी- भावः। अव्ययीभावश्चेति नपुंसकत्वम् । ४१-चत्वारि शतानि पञ्च शतानि वेति वक्तव्यम् । संख्या समानाधिकरणेन न समस्यत इत्यसकृदुक्तभधस्तात् । चतुष्पद्मानि शतानीत्येवमपि दुर्लभं वक्तुम् । संख्येये वर्तमान संख्या संख्यया समस्यते बहुत्रीहिश्च समस भवति । प्रस्तुते तु चत्वारि वा पञ्च वेति संख्ये संख्येये न