पृष्ठम्:शब्दापशब्दविवेकः.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४८ ]
शब्दापशय्दविवेके

जनकयोः। ‘पुमान् स्त्रिया' इत्येकशेषविधौ तल्लक्षणश्चेदेव विशेष इति वर्तते । अत्र स्त्रीप्रत्ययमात्रभिद्यत इति न, कृत्प्रत्ययावपि भिद्यते । २४--त्रिचतुराङ्गुलायामा इति समासेन वक्तव्यम् । तत्रश्चतस्त्रो वा या अङ्गुलयस्ता इत्येवं विग्रहे तु त्रिचतुरा इति न सिध्यति । त्रीणि वा चत्वारि वेति सामान्योपक्रमे संख्ययोः समासे युपाभ्यां चतुरोऽजिष्यत इत्यचि संमासान्ते त्रीत्वविवक्षायां टापि त्रिंचतुरा इति रूपम्। त्रिचतुरा अङ्गलय आयाम आसामिति विग्रहे त्रिचतुरा इत्यस्य संख्यात्वमाश्रित्य त्रिचतुरा झुलीति शब्दरूपस्योत्तरपदे परतो द्विगुत्वम् । तेन तत्पुरुषास्याङ्गलेः संख्या- व्ययादेरित्यसमासान्तः । २५-उपकर्तव्यमिति विधेयम् । बिधेयेन च समासो नेति परेषामुपकर्तव्यमिति वाक्यमेव साधु । परेषामिति कर्मणि शेषत्वेन विवक्षिते षष्ठी । २६–आचतुश्चत्वारिंशद्वर्षमित्यव्ययीभावेन सुपोऽमदेशे वक्तव्यम् । आ चतुश्चत्वारिंशतो वर्षेभ्य इति व्यासेन वा। २७–सविशेषणानां वृत्ति नै वृत्तस्य वा विशेषणं नेति भाष्योक्तेः प्रति वेदमित्यव्ययीभावो निर्मुक्तः सन्साङ्गोपाङ्गस्येति विशेषणेन योगं नार्हति । एकैकस्य वेदस्येति वक्तव्यम् । प्रतिवेदं साङ्गोपाङ्गमध्ययनमित्येवं वा न्यासः कार्यः । तत्र साङ्गोपाङ्गमिति क्रियाविशेषणम् । २८–अविरुध्यत इति प्रमादः । भाषायां तिङन्तेन समासाभावात् । सुप्सुपेत्यधिकारात् । न विरुध्यत इत्येव वक्तव्यम्। २९–संजातसंग्रामे इत्यसमर्थसमासः। आर्युदस्यू नामित्यपि हेयम् । विलम्बितेष्टार्थसमर्पणात् । दस्यव आर्या न भवन्तीत्या गन्तुकार्थप्रतीतेः कर्मधारयायोगाद् द्वन्द्वसमाश्रयात् । तेन आर्याणां दस्यूनां चेति वक्तव्यम् . आर्याणां दस्युभिः सहेति वा। ३०--नृपकन्यामित्य समर्थसमासः । नृपस्य कन्यामिति वाक्यमेव प्रयोज्यम्। ३१-दिसंख्ये संज्ञायामिति नियमादसंज्ञायां संख्या समानाधिकरणेन सुबन्तेन न समे स्यत इति दिव्यानि सहस्त्रं वर्षाणीत्येवं न्यसनीयं दिव्यं वर्षसहस्रमिति षष्ठीसमासेन वा। ३२–अनन्तरोक्तेनैव नियमेन पञ्चशतमिति साय- द्यम्। पञ्चाधिकं शतमित्यर्थं तु मध्यमपदलोपसमासे तत्साध्वेव। ३३–शतद्विर्षेभ्य इत्येवं निर्गुटं स्यात् । निर्देष्टत्व उक्तो हेतुः । किञ्चि