सापेक्षमसमर्थं भवति । तेन देहावसानोत्तरस्मन्नित्येवं न्यासो न्याय्यः । १२-दुर्लभत्रिपदस्तत्पुरुष इति त्रयाणां लोकनां नाथ इति समासो न स्यात् । तेन त्र्यबयुवो लोकत्रिलोकः । मध्यमपदलोपी समासः । त्रिलोकस्य नाथस्त्रिलोकनाथ इत्येवं व्याख्येयम् । १३-असामथ्र्यपि गमकत्वात्समासो देवदत्तस्य गुरुकुलमिति वत्। तेन ज्ञातयाथायें ति साधु। १४-द्विसहस्राभिरित्यपशब्दः। त्रिभिर्जातिसहनैरिति वक्तव्यम् । त्रिसहस्रमिन्ये क्रमचनान्तं प्रयुज्यते, त्र्यधिकं सहस्रमिति च तद्विग्रहो भवति । त्रीणि सहस्राणीत्यर्थे तु समासो नास्ति । दिक्संख्ये संज्ञाया मिति नियमात् । । १५–पूर्वं षष्ठोसमासः सम्बन्धाख्यायको भवति पश्च त्तरसम्बन्धवान् विशेष्यत इत्युदात्तस्याचरणेनेति न्यासः शोभनः । स्यात् । उत्तरपदार्थप्रधानस्तपुरुष इत्युदात्ताथ गौणतां भजत इत्युदात्तेनः: स्माचरणेनेति शोभनतरो न्यासः । स्वशब्दमन्सरेणापि तदर्थगतेरुदात्तेनाच रणेनेति शोभनतमः । १६-सहशब्देन सदृशवचनंन समासो द्रष्टव्यः । योपसर्जनस्येति वा सादेशः। १७–प्रश्नं प्रश्नं प्रतीति प्रतिप्रश्नमित्य- व्ययीभावः । नाव्ययीभावादतोऽम्त्वपञ्चम्या इति सुपोऽमादेशः । तेन प्रतिप्रश्नस्येत्यपशब्दः। १८–अस्तमिति मकारान्तमव्ययं तिरोभावे. वर्तते । अस्त इति चाचलं विशेषस्य संज्ञा। तेन सूर्योदयास्तमयाविति वाच्यम् । १९-स्वराज्यसुराज्ययोरित्येवं व्यसनीयम्। साधारणमपि ज्य म तपदं दुस्त्यजम् । न च स्वशब्देन सुराज्यगतराज्यशब्दः शक्यो विशेषयितुम् । सर्वनाम्नां प्रधानपरामर्शित्वमिति स्थितम् । २०–तत्तद् प्रन्थानधीतानामिति दुष्टो न्यासः । अनधीततत्तद्ग्रन्थानमित्येव शोभनः संनिवेशः । यथास्थिते द्वितीयासमासानुपपत्तेः । २१-आङ् मर्यादा भिविध्योरिति विभषऽव्ययीभावः । अव्ययीभावश्चेति नपुंसकत्वे हरवो हे नपुंसके प्रातिपदिकस्येति हस्वस्त्रे अव्ययादाप्सुप इति सुब्लुकि आषोडश तिथि इ.त युक्तः समासः । पते आ षोडश्यास्तिथेरिति वाक्यम् । २२-कृतोपकरावेदनमित्यसमर्थः समासः । तेन अन्यकृतेपकरावेदन मित्येवं वक्तव्यम् । २३–जननी च जनकश्चेति जननीजनकौतयोर्जनी
पृष्ठम्:शब्दापशब्दविवेकः.djvu/३११
दिखावट