पृष्ठम्:शब्दापशब्दविवेकः.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४६ ]
 

दुर्घटासमर्थसमासाधिकारश्चतुर्थः।

१--प्रश्नाश्चोत्तराणि चेति प्रश्नोत्तराणि प्रश्नोत्तरं वेति युज्यते वक्ततुम् । परवल्लिङ्गं द्वन्द्वतपॅरुषयोरित्युत्तरशब्दस्य लिङ्गम् । समाहारे तु स नपुंसकमिति समासस्य नपुंसकत्वम्। नात्र बहुत्रीहिः शक्यशकः। चार्थस्य विद्यमानत्वाद् द्वन्द्वस्य दुर्वारत्वात् । २–भयशब्दो हि मृत्यु सव्यपेक्ष इति मृत्युशब्देन प्रथमं समसनमर्हति । मृत्योभयं मृत्युभयम् । निष्क्रान्तं मृत्युभयात् इति निभृत्युभयचेतसामित्येव न्यासो न्याय्यः। , ३–तस्य परासृजा रञ्जनमित्येवं न्यासः कार्यः। कर्तृकरणे कृता बहुलमिति बहुलग्रहणात्समासो न। कचिप्रवृत्तिः क्कचिदप्रवृत्तिरित्यादि चतुर्विधं बाहुलकमाहुः । ४–बलिभिः करैः पीडिता इति बलि पीडिताः । तृतीयातत्पुरुषः । ततो नञ्समासः । तेन अबलि पीडिता इत्येव साधु । ५-प्रतीकारार्थमित्यसमर्थसमासोऽयम्। वैषम्य शब्दापेक्षः प्रतीकारशब्दोऽर्थशब्देन समसनं नार्हति । प्रतीकाराय, वैषम्यप्रतीकारार्थमिति समासेन वा वक्तव्यम् । ६ - पुनः संस्कृतोद्धार मित्येवं समासो निर्देष्टः स्यात् । उद्वारशब्दः संस्कृमाकाङ्क्षति । तेन प्रथमं संस्कृतोद्धार इति षष्ठीतत्पुरुष आस्थेयः, ततः पुनःशब्देन समासः। तस्मात् पुनः संस्कृतोद्धार इत्येव साधु । यथा वाक्यपदीयकरस्य भूयो द्रव्यसमुद्दश इति प्रयोगः । ७–सर्घयोषिद्गुणालङ्कृतामित्येवं न्यासः साधुः। पूर्वं षष्ठोसमासः पश्चस्कर्मधारय इत्येष क्रम इति प्रसाधितं भूमिकायामिति तत एवावधार्यम् । ८–मौनमास्थित इति व्यासेन वक्तव्यम् । द्वितीयासमासविधेरभावात् । द्वितीयेति योगविभागाद्वा स समास इति समाधेयम् । ९–गीर्वाणेभ्यः समर्पणीया इत्येवं वाक्यमा- श्रयणीयम् । चतुर्थीसमासस्यविधेः। १०--आगामिधूर्णिमायाः पूर्वमित्येवं विप्रहेण वक्तव्यम् । पञ्चमीसमासस्याविधानात् । न च पूर्वेण पञ्चमी समासः शिष्टप्रयोगेषु दृष्ट इत्यलं तत्समाधानयत्नेन । ११=अवसानो तरस्मिन्नित्यसमर्थसमासः। अवसानमिति देहेन सम्बद्धमिति सापेक्षम्।