पृष्ठम्:शब्दापशब्दविवेकः.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २४५
अविहितनिषिदसमासाधिकारः

प्रयोगेषु निर्वाहार्थमभ्युपगमात् । ५-पूरणगुणसुहितार्थंसदव्ययतव्य समानाधिकरणेनेति षष्ठीसमासनिषेचे पाणिनेः सूत्रकारस्येति साधु । मिशेषणं विशेष्येण बहुलमित्यनेन तु समासो भवत्येव । तदा नियोगतो ! विशेषणस्यैव पूर्वनिपातः । सूत्रकारपाणिनेः। ६-दिक्संख्ये संज्ञायामिति नियमात्संज्ञायामेव संख्यावचनाः समानाधिकरणेन समस्यन्ते । अत्र च संज्ञा नास्तीति षष्टी रूप्यकाणीति व्यासेन वक्तव्यम् । ७–क्तेन च पूजायाम् इति क्तस्य च वर्तमाने इति विहितायाः षष्ठयाः समासो नेति मम संमत इत्येव वाच्यम् । ८–अनित्योऽयं गुणेन निषेधः । तदशिष्यं संज्ञा प्रमाणत्वादित्यादिनिर्देशादिति पूरणगुणेत्यादिसूत्र दीक्षितः । अनित्यत्वं । भाष्ये न दृश्यत इति दाधिमथाः। तेन काकसम्बन्धिकार्यं काक काढण्यंसित्येवं मध्यमपदलोविसमासकल्पनया साधुत्वमवसेयम् । ९-पूरणगुणेत्यादिना शत्रेणाव्ययेन षष्ठीसमासनिषेधात् पर्वतस्योपरिष्टा दित्येव साधु। १०–विरोधस्य जनयितार इत्यसमासेन वक्तव्यम्। कर्तरि चेति षष्ठीसमासनिषेधात् । ११–न लोकाव्ययनिष्ठाखलर्थतृनाम् इति कृद्योगलक्षणायाः षष्ठया निषेधे पुत्त्राद्वितीया। पुत्त्रमभिलाषुकः। | द्वितीयासमासविधेरभावाद् वाक्यमेव साधु। १२-अत्र चतुर्थीसमास विधेरभावात् सभर्ने प्रतिपादितेत्यत्र साधु । अस्ति च तत्पाठान्तरं मातृक ग्रन्थेषु। १३–महिलानामुत्त मया इत्येव साधु। उक्तोत्र हेतुः ।१४–कवि प्रथम मद्धतेः प्रणेतेत्येवं न्यासो न्याय्यः । कर्तरि चेति षष्ठीसमासनिषेधात् । १५-विशेषणं विशेष्येण बहुलमिति समासः । कार्तवीर्यश्चासावर्जु नश्चेति विग्रहः । षष्ठी समानाधिकरणेन न समस्यत इति प्रतिषेधे सत्य प्येष विधिर्भवतीति काशिका । १६-शुक्रचार्यकन्याया देवयान्याःवृष पवंदुहेतुः शर्मिष्ठाया इत्येवं व्यासेन वक्तव्यम् । पूरणगुणेत्यादिना सूत्रेण षष्ठ्याः समानाधिकरणेन समासनिषेधात्।.१७–सह्ययुक्तेऽप्रधानं इति सहायैर्योगे तृतीया विहिता। एतल्लक्षणयास्तृतीयायाः समासस्तु क्वचिन्नोक्त इति त्वया साकमित्येवं व्यासेन वक्तव्यम् ।

_____